________________
(चतुर्थ परिच्छेदः आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥४-१॥ उपचारादाप्तवचनं च ॥४-२॥ समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभूतयः ॥४-३॥ अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते, स आप्तः ॥४-४॥ तस्य हि वचनमविसंवादि भवति ॥४-५॥ स च द्वेघा, लौकिको लोकोत्तरश्च ॥४-६॥ लौकिको जनकादि लौकोत्तरस्तु तीर्थङ्करादिः ॥४-७॥ वर्णपदवाक्यात्मकं वचनम् ॥४-८॥ अकारादिः पौद्गलिको वर्णः ॥४-९॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ॥४-१०॥ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः ॥४-११॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद् यथार्थायर्थार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥४-१२॥ सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥४-१३॥ एकत्र वस्तुन्येकैक धर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङिकतः सप्तधा वाक्यप्रयोगः सप्तभङगी ॥४-१४॥ तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः ॥४-१५॥ स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥४-१६॥ स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥४-१७॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥४-१८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपविधिनिषेधकल्पनया च पञ्चमः ॥४-१९॥ स्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ॥४-२०॥ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥४-२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org