________________
Jain Education International
एवमनेकधा भङ्गी, शोभते जैनशासने । उपरिष्टाद् विरुद्धा तु, न विरुद्धैव तत्वतः ॥ ८ ॥
कुवादिकाव्यकुरङ्ग, - मृगारिनादसाम्यकैः । अपूर्ववचनैर्दृब्ध- श्रुतुर्थोऽयं परिच्छदः ॥ ९ ॥
तदुक्तिभक्तिभावेन, प्रेरितोऽहं विवेचने । श्रुतरागेण गच्छामि, कृपां वर्षन्तु सज्जनाः ॥१०॥
ग्रन्थकाठिन्यसत्त्वेऽपि, नासाध्यं कृपया गुरोः । पारं गच्छन्ति वायोर्हि, प्रभावाद् मशका अपि ॥११॥
फ
For Private & Personal Use Only
www.jainelibrary.org