________________
चतुर्थपरिच्छेदस्य प्रारम्भे
(मङ्गलाचरणम्
तं स्मरामि नाभेयं, प्रशस्यं विमलाचले । विराजितं गुणागारं, प्रथमतीर्थकारकम् ॥१॥ देवीचक्केश्वरीयक्ष- विमलेश्वरसेवितः । भक्तेष्टफलदायी योऽ मरामरीभिरर्चितः॥२॥ युग्मम् प्रमाणनयतत्त्वारव्ये, महाग्रन्थेऽतिदुर्गमे । तार्तीयीके परिच्छेदे, परोक्षभेदवर्णके ॥३॥ स्मरणप्रत्यभिज्ञान- तर्कानुमानसंज्ञितम् । सविशेषेण विस्तीर्या- थागममानमुच्यते ॥४॥ आगमे बहुवाच्यत्वात्, कुवादितन्त्रताडनात् । परिच्छेदचतुर्थेन, स्वतन्त्रेणैव वक्त्यसौ ॥५॥ शक्तिस्वभावसङ्केता- भ्यामेव वाच्यवाचकः। ध्वनिरेषश्च निर्दोषो, मतस्तत्रातिचर्च्यते ॥६॥ स्याद्वाद सप्तभङ्ग्यंत्र, सदसतौ क्षयाक्षयौ । वाच्यावाच्यावुभावत्र, भिन्नाभिन्नौ सुधाप्रदौ ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org