________________
प्रथमः परिच्छेदः
प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम्, अतो ज्ञानमेवेदम् ॥३॥ न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥४॥ न खल्वस्य स्वनिर्णीतौ करणत्वम् स्तम्भादेरिवाचेतनत्वात् ॥५॥ नाप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भादेरिव तत्राप्यकरणत्वात् ॥६॥ तद् व्यवसायस्वभावम्, समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा ॥७॥ अतस्मिंस्तदध्यवसायः समारोपः ॥८॥ स विपर्यय-संशया-नध्यसायभेदात् त्रेधा ॥९॥ विपरीतैककोटिनिष्टङ्कनं विपर्ययः ॥१०॥ यथा शुक्तिकायामिदं रजतमिति ॥११॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्श ज्ञानं संशयः ॥१२॥ यथाऽयं स्थाणुर्वा पुरुषो वा ॥१३॥ किमित्यालोचनमात्रमनध्यवसायः ॥१४॥ यथा गच्छत्तृणस्पर्शज्ञानम् ॥१५॥ ज्ञानादन्योऽर्थः परः ॥१६॥ स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि ॥१७॥ कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत, मिहिरालोकवत् ॥१८॥
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org