________________
ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥१९॥ तदितरत्त्वप्रमाणम् ॥२०॥ तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च ॥२१॥
समाप्तोऽयं प्रथमपरिच्छेदः
द्वितीयः परिच्छेदः
तद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥१॥ स्पष्टं प्रत्यक्षम् ॥२॥ अनुमानाद्यधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥ तद् द्विप्रकारं-सांव्यवहारिकं पारमार्थिकं च ॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥५॥ एतद् द्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पम् ॥६॥ विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥७॥ अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा ॥८॥ ईहितविशेषनिर्णयोऽवायः ॥९॥ स एव दृढतमावस्थाऽऽपन्नो धारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥ कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वात् अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥१३॥ क्रमोऽप्यमीषामयमेव, तथैव संवेदनात् एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥१४॥
૬ ૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org