________________
माङ्गलिक
जयतु श्री महावीरो, निर्वाणैकनिबन्धनः । प्रसन्नाः गौतमाद्यास्तु, मोहविषाय गारुडाः ॥ १ ॥ प्रमाणनयतत्त्वाख्यो, ग्रन्थो विनिर्मितो बुधैः । विविधविषयाऽऽपूर्णो, वादिश्रीदेवसूरिभिः ॥ २ ॥ तत्प्रवेशाय नौकेयं, श्रीरत्नप्रभसूरिभिः । टीका विरचिता लघ्वी, रत्नाकरावतारिका ॥ ३ ॥ तस्यास्तु दुर्गमत्वेन, बालानामुपकारकम् । मृदुभाषानुवादेन, करोम्यत्र विवेचनम् ॥ ४ ॥ सद्विद्याव्यसनासक्त, पाठकगणशासितः । स्वस्मरणनिमित्तार्थं यत्नमिदं चराम्यहम् ॥ ५ ॥ दुर्गमानपि भावान् या, सुज्ञातव्यान् तनोति सा । करोतु मयि सान्निध्यं, श्रीमद् देवी सरस्वती ॥ ६ ॥ व चाल्यविषया बुद्धिः, व श्रीगीतार्थपङक्तयः । तथापि शिशुरागेण, बले यात्यबलो यथा ॥ ७ ॥ तद्वत्परिश्रमारम्भं, कर्तुमिच्छामि किञ्चन । गुरुवर्गकृपावृष्ट्या, जीयाच्चन्द्रदिवाकरम् ॥ ८ ॥
निर्विध्नेन समाप्तिस्तु भवत्विति महेच्छया । प्रारप्स्ये ऽहमिदं ग्रन्थं, मित्रीसन्तु हितेच्छवः ॥ ९ ॥
Jain Education International
ܙ
૫૯
-
ધીરજલાલ ડાહ્યાલાલ મહેતા
For Private & Personal Use Only
www.jainelibrary.org