________________
૧૭૦ ૦ અનેકાના ચિંતન
' विदितसमयोऽप्येवं बाग्मी विनोपनिषक्रियां न तपति यथा विज्ञातारस्तथा कृतविग्रहाः ॥३२॥
वादार्जिशिका. ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः । स्यात् सौ (? स) ख्यमपि शुनोांवोरपि वादिनोर्न स्यात् ॥१॥ कच तत्त्वाभिनिवेशः कचरंभातुरेक्षणं वदनम् । क्वच सा दीक्षा विश्वसनीवरूपतानृजुवावः (?) ॥२॥ तावद् बकमुग्धमुखस्तिष्ठति यावन्न रङ्गमवतरति । :: रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति ॥३॥ क्रीडनकमीश्वराणां कुर्कुटलावकसमानबालेभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ॥४॥ अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खावत्यङ्गानि दर्पण ॥५॥ अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः । वाक्संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायमं ॥७॥ यद्यकलहाभिजातं वाक्छलरङ्गावतारनिर्वाच्यम् । स्वस्थमनोभिस्तत्त्वं परिमीमांसेन दोप: स्यात् ॥८॥ साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित् प्रशमयुक्तः । न तु कलहकोटिकोट्याऽपि समेता (? सगता) वाक्यलालभुजः ॥९॥ आर्तध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्व । चिन्तयति पक्षनयहेतुशास्त्रवाग्बाणसामाम् ॥१०॥ हेतुविदसौ न शब्दः (शाब्दः) शाब्दोऽसौ न तु विदग्धहेतुकथः । उभयज्ञो भावपटुः पटुस्न्बोऽसौ स्वमतिहीनः ॥११॥ सा नः कथा भवित्री तत्रैता जातयो मया योज्याः ।, इति रागविगतनिद्रो वाग्मुखयोग्यां निशि करोति ॥१२॥ अशुभवितर्कविमितहृदयः कृत्स्ना क्षपामपि न शेते । कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः ॥१३॥ यदि विजयते कथञ्चित्ततोऽपि पस्तिोपभग्नमर्वाचः । .. स्वगुणविकत्थनदूषिक ( ? )स्त्रीपपि लोकान् खलीकुरुते ॥१५॥ उत जीयते कथञ्चित् परिषत्परिवादिनं स कोपान्धः । गलगर्जेनाकामन् वैलक्ष्यविनोदनं कुरुते ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org