________________
सन्मतितई मने तेनुं महत्व • १६८ पूर्व स्वपक्षरचना रभसः परस्य वक्तव्यमार्गमनियम्य विजृम्भते यः । आपीड्यमानसमयः कृतपौरुषोऽपि नोच्चैः शिरः स वदति प्रतिभानवत्सु ॥७॥ नावैमि किं वदसि कस्य कृतान्त एषः सिद्धान्तयुक्तमभिधत्स्व कुहैतदुक्तम् । पन्थोऽयमवधारय नैष पन्थाः क्षेपोऽयमित्यविशदागमतुण्डबन्धः ॥८॥ आम्नाममार्गसुकुमारकृताभियोगा क्रूरोत्तरैरभिहतस्य विलीयते धीः । नीराजितस्य तु सभाभटसंकटेषु शुद्धप्रहारविभवा रिपवः स्वपन्ति ॥२१॥ किं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः । आशीविषो हि दशनैः सहजोग्रवीर्यैः क्रीडन्नपि स्पृशति यत्र तदेव मर्म ॥२६॥ मन्दोऽप्यहार्यवचनः प्रशमानुयातः स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् । तस्मात् प्रवेष्टमुदितेन सभामनांसि यत्नः श्रुताच्छतगुणः सम एव कार्यः ॥२७॥ आक्षिप्य यः स्वसमयं परिनिष्ठराक्षः पश्यत्यनाहृतमनाश्च परप्रवादान् । आक्रम्य पार्थिवसभाः स विरोचमानः शोकप्रजागरकृशान् द्विषतः करोति ॥२८॥ किं गर्जितेन रिपुषु त्वभितो मुखेषु किं त्वेव निर्दयविरूपितपौरुषेषु । वाग्दीपितं तृणकृशानुबलं हि तेजः कल्यात्ययस्थिरविभूति पराक्रमोत्थम् ॥२९॥ परिचितनयः स्फीताथोऽपि श्रियं परिसंगतां न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषद्बलः ।
Jal Education International
For Private & Personal Use Only
www.jainelibrary.org