________________
सन्मतित भने तेनुं भडप . १७१ वादकथां न क्षमते दीर्घ निःश्वसिति मानभङ्गोष्णम् । रम्येऽप्यरतिज्वरितः सुहृत्स्वपि वज्रीकरणवाक्यः ॥१७॥ दुःखमहंकारप्रभवमित्ययं सर्वतन्त्रसिद्धान्तः । अथ च तमेवारूढस्तत्वपरीक्षां किल करोति ॥१८॥ ज्ञेयः परसिद्धान्तः स्वपक्षबलनिश्चयोपलब्ध्यर्थम् । परपक्षक्षोभणमभ्युपेत्य तु सतामनाचारः ॥१९॥ स्वहितायैवोत्थेयं को नानामतिविचेतनं लोकम् । यः सर्वज्ञैर्न कृतः शक्ष्यति तं कर्तुमेकमतम् ॥२०॥ सर्वज्ञविषयसंस्थांश्छद्मस्थो न प्रकाशयत्यर्थान् । नाश्चर्यमेतदत्यद्भुतं तु यत्किचिदपि वेत्ति ॥२१॥ परुषवचनोद्यतमुखैः काहलजनचित्तविभ्रमपिशाचैः । धूर्तेः कलहस्य कृतो मीमांसा नाम परिवर्तः ॥२४॥ परनिग्रहाध्यवसितश्चित्तैकाग्यमुपयाति तद्वादी । यदि तत्स्याद्वैराग्ये न चिरेण शिवं पदमुपयातु ॥२५॥ एकमपि सर्वपर्ययनिर्वचनीयं यदा न वेत्त्यर्थम् । मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इह पुंसः ॥२६॥
न्यायद्वात्रिंशिका । दैवखातं वदनं आत्मायत्तं च वाङ्मयम् । श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ॥१॥ द्वितीयपक्षप्रतिघा सर्व एव कथापथाः । अभिधानार्थविभ्रान्तैरन्योऽन्यं विप्रलप्यते ॥७॥ एकपक्षहता बुद्धिर्जल्पवाग्यन्त्रपीडिता । श्रुतसंभावना वैरी वैरस्यं प्रतिपद्यते ॥१६॥ न नामं दृढमेवेति दुर्बलं चोपपत्तितः । वक्तृशक्तिविशेषात्तु तत्तद्भवति वा न वा ॥२८॥ तुल्यसामाधुपायासु शक्त्या युक्तो विशेष्यते। विजिगीषुर्यथा वाग्मी तथाभूयं श्रुतादपि ॥२६॥ प्राश्निकेश्वरसौमुख्यं धारणाक्षेपकौशलम् । सहिष्णुता परं धार्यमिति वादच्छलानि षट् ॥३१॥
-हैन 'रौप्य महोत्सव .' ૧. આ લેખના સહલેખક ૫ બેચરદાસજી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org