SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ જ્ઞાનવિષયક સમસ્યાઓ देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् । अष्टशती पृ० २७६ २७. अनेकान्तोऽप्यनेकान्तः... । स्वयंभूस्तोत्र १०३ ३०. तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । सांख्यतत्त्वकौमुदी ४ ३१. उपलब्धिसाधनानि प्रमाणानि । न्यायभाष्य १.१.३ T "अर्थोपलब्धिहेतुः प्रमाणम्” इति नैयायिकाः । प्रामाणमीमांसास्वोपज्ञवृत्ति १.८ ३२. .. बोधाबोधस्वभावा सामग्री प्रमाणम् । न्यायमञ्जरी भाग १ पृ० २१ 33. यत् तु किमपेक्षं सामग्रचाः करणत्वमिति तदन्तर्गतकारकापेक्षमिति ब्रूमः । न्यायमञ्जरी भाग १ पृ० १३ ३४. न्यायमंनरी (जंगाजी) ५० ११५ ३५. यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिः । मनसो वेन्द्रियैर्योग आत्मना सर्व एव वा ॥ श्लोकवार्तिक 39. यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् । न्यायभाष्य १.१.३ ३७. ...धीप्रमाणता । प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ प्रमावार्तिक १.५ कस्मात् पुनर्धियः प्रमाणतेष्यते, नेन्द्रियादेः ? हेयोपादेयवस्तुविषयायाः प्रवृत्तेस्तत्प्रधानत्वात् धिय एव प्रामाण्यम् । न हीन्द्रियमस्तीत्येव प्रवृत्तिः । किं तर्हि ? ज्ञानसद्भावात् । साधकतमं च प्रमाणम्, तस्याव्यवहितव्यापारत्वात् । मनोरथवृत्ति १.५ ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्निकर्षादि । मनोरथवृत्ति १.३ ३८. अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेरिति । न्यायबिन्दु १.२० - २१ ३७. एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम् । न्यायबिन्दु- धर्मोत्तरटीका १.२१ ४० इति सा योग्यता मानम्... फलं स्ववित् । प्रमाणवार्तिक २.३६६ ४१. सन्निकर्षादेरज्ञानस्य प्रमाण्यमनुपपन्नम्. | अकत्रय, पृ० १ । हिताहिताप्तिनिर्मुक्तिक्षमम्... । अकत्रय, पृ० २९ ४२. तदा हि करणस्य क्रियायाश्च कथञ्चित् एकत्वं प्रदीपतमोविगमवत्, नानात्वं परश्वादिवत् । अष्टशती, पृ० २८४ ४३. पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् । अकत्रय, पृ० ३ ४४. कर्तृस्था प्रमाणम् । प्रमाणमीमांसा १.१.३६ कर्तृव्यापारमुल्लिखन् बोधः प्रमाणम् । स्वोपज्ञवृत्ति १.१.३६ ४५. कर्मोन्मुखो ज्ञानव्यापारः फलम् । प्रमाणमीमांसास्वोपज्ञवृत्ति १.१.३५ ૧૫૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy