________________
णिजुत्ति-चुण्णिसमलंकिय
[१ समयज्झयणे पढमो उद्देसओ
किश्च तत् ?, कर्म । किश्चान्यत्-एकात्मकत्वे हि सति पितृ-पुत्रा-ऽरि-मित्रता न घटते । अथवा एकत्वे हि खल्वात्मनो न सुखादयः संविद्यन्ते, सर्वगतत्वात् , इह यत् सर्वगतं न तत् सुखादिगुणम् , यथाऽऽकाशम् । एवं न बध्यते, सर्वगतत्वात्, इह यत् सर्वगतं न तद् बध्यते, यथाऽऽकाशम् , यच्च बध्यते न तत् सर्वगतम् , यथा देवदत्तः । एवं न मुच्यते न कर्ता न
भोक्ता [न मन्ता] न संसारीत्यादि । नाऽऽत्मैकत्वे सुखी, बहुतरोपघातात्, इह यो बहुतरोपघातो नासौ सुखी, यथा 5 सर्वरोगावृतो अमुल्येकदेशेऽरोगः, यश्च सुखी नासौ बहुतरोपघातः, यथेष्टविषयसम्पदुपेतो[ऽनुपद्रवो] देवदत्तः । न चासौ मुक्तः, बहुतरोपनिबन्धनात् , इह यो बहुतरोपनिबन्धनो नासौ मुक्त इति व्यपदिश्यते, न चामुक्तः सुखमश्नुते, यथा सर्वाङ्गशीलितो विमुक्ताङ्गुल्येकदेशः पुमान ; यश्च मुक्तो नासौ बहुतरोपनिबन्धनो न च खल्पनिबन्धनः, यथाऽशीलितः पुमान् । त्वपर्यन्तमात्रशरीरव्यापी जीवः, तत्रैव तद्गुणोपलम्भात्, इह यस्य यावति गुणोपलम्भः स तन्मात्रो दृष्टः, यथा घटः, यश्च
यत्रासन् न तस्य तत्र गुणोपलब्धिः ; यथाऽग्नेरम्भसि [विशेषा० १५८४ तः ८६ गाथानां स्वोपज्ञटीका ] ॥ १०॥ 10 उक्ता एकात्मवादिनः । इदाणिं तज्जीवतस्सरीरवादी । ते भणंति
११. पत्तेयं कसिणे आया जे बाला जे य पंडिता ।
संति पेचा ण ते संति णत्थि सत्तोर्वपातिया ॥ ११ ॥ ११. पत्तेयं कसिणे आया० सिलोगो। पत्तेयं नाम पृथग् एकैकं शरीरं प्रति एक एवाऽऽत्मा भवति, न हि सर्वमेकात्मकम् । कसिणो णाम शरीरमात्रः, न तु शरीराद् व्यतिरिच्यते । बाला नाम मन्दबुद्धयः, पंडिता बुद्धिसंपण्णा, अथवा 15 पंडिता जे एतं दरिसणं पवण्णा, तेषां प्रत्येकश एकैक आत्मा । तेषां तु संति पेचा ण ते संति, सन्तीति सन्ति आत्मानः, केवलं तु शरीरं आत्मा भूत्वेह च प्रेत्य न ते यान्ति । प्रेत्य नाम परभवो। कथम् ? न हि सत्ता औपपातिका विद्यन्ते ॥११॥ ___ यतश्चैवं तेण
१२. णत्थि पुण्णे व पावे वा णत्थि लोगे इतो परं।
___ सरीरस्स विणासेणं विणासो होति देहिणं ॥१२॥ 20 १२. णत्थि पुण्णे व पावे वा० सिलोगो। न हि किश्चित् तपो-दान-शीलैरप्याचर्यमाणैः पुण्यं बध्यते, हिंसाद्यैर्वा पापम् ।
णत्थि लोगे इतो परं ति न चास्त्यन्यो लोकः यत्र पुण्य-पापे अनुकूल्येयाताम् । कस्मात् ? सरीरस्स विणासेणं विणासो होति देहिणं । स्यादेतत्-यदि पुण्य-पापे न भवतः तेनायमीश्वरः अनीश्वरो [वा] न विद्यते, नन्वेकस्मादेव पाषाणाद् रुद्रादिप्रतिमा क्रियते पादप्रक्षालनशिला च, न चानयोः पुण्य-पापे स्तः, एवं स्वभावादेव ईश्वरो भवत्यनीश्वरो वा । उक्तं च
कण्टकस्य च तीक्ष्णत्वं, मयूरस्य च चित्रता । "पौर्णाश्च नीलताऽऽम्राणां स्वभावेन भवन्ति हि ॥ १॥
तेषामुत्तरम्- विद्यमानकर्तृकमिदं शरीरम् , आदिमत्प्रतिनियताकारत्वात् , इह यदादिमत् प्रतिनियताकारं च तद् विद्यमानकर्तृकं दृष्टम् , यथा घटः; यच्चाविद्यमानकर्तृकं न हि तदादिमत् प्रतिनियताकारं च, यथाऽऽकाशम् ; यत्कर्तृकं चेदं शरीरं स जीवस्तस्मादन्य इति । आदिमत्त्वविशेषणं जम्बूद्वीपादिलोकस्थितिनिषेधार्थम् । विद्यमानाधिष्ठातृकाणीन्द्रियाणि,
१ हस्तचिह्नान्तर्गतोऽयं समग्रोऽपि चूर्णिग्रन्थसन्दर्भश्चर्णिकृताऽक्षरशः विशेषावश्यकस्खोपज्ञटीकात आहृतोऽस्ति ॥ २ सम्पद्यन्ते विखो। सङ्कटन्ते मु०॥ ३ पञ्चा खं २ । पिचा वृ० दी० ॥ ४°ववाइया खं २ । विवायया पु १ पु २ ॥ ५ पश्चा वा० मो० ॥ ६ सत्त्वा इत्यर्थः । “न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिनः उपपातेन निर्वृत्ता औपपातिकाः, भवाद् भवान्तरगामिनो न भवन्तीति तात्पर्यार्थः ।" इति वृत्तिकृतः ॥ ७परे खं २ पु १ पु २ वृ० दी। वरे खं १॥ ८ देहिणो खं १ खं २ पु १ पु २ वृ० दी०॥ ९ एतद्गाथानन्तरं खं २ पु १ पु २ प्रतिषु तज्जीवतच्छरीरवादी गतः इति वर्तते ॥ १०°स्य विचित्रता वृत्तौ ॥ ११ पौर्णाश्वनीलताऽऽम्ब्राणां स्वभा वा० मो० सं० । पर्णानां नीलता स्वच्छा स्वभा मु० । वर्णाश्च ताम्रचूडानां स्वभा वृत्तौ ॥ १२ हस्तचिहान्तर्गतोऽयं ग्रन्थसन्दर्भश्चर्णिकृता अक्षरशः विशेषावश्यकस्वोपज्ञटीकात आहृतोऽस्ति ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org