SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रस्य ___ संदी० = संघवीपाडाज्ञानभंडार(पाटण)सत्का दीर्घा प्रतिः ३२"४२" इंचमिता, वैक्रमे १४६७ वर्षे लिखितेयं प्रतिः। एवं षट् तालपत्रोपरिलिखिताः प्रतयः। अथ कागदपत्रोपरिलिखिता अष्टौ प्रतयः-- इ० = ईडर जैनश्वेताम्बरसंघपेढीसत्का प्रतिः जै० = जैनसाहित्यविकासमंडल(मुंबई)सत्का प्रतिः हे १, २, ३= श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिर(पाटण)सत्कास्तिस्रः प्रतयः ला०, ला १ = ला० द० भा० सं० विद्यामन्दिर(अहमदाबाद)सत्कं प्रतिद्वयम् जि० = जिनहंससूरिविरचितदीपिकासहिता प्रतिः ला० द० भा०सं० वि० सत्का। आसु शां० प्रतिः २०४ तमसूत्रपर्यन्तमेव वर्तते। जे० प्रतेः ३१ तमसूत्रं यावदेवोपयोगः कृतः। . ला १-जि० प्रत्योरपि क्वचिदेवोपयोगः कृतः। संदी० प्रतिः समग्रग्रन्थमुद्रणानन्तरमेव लब्धा, अतस्तत्रत्याः पाठभेदा विशिष्टाः संदी०प्रतिपाठाः इत्यत्रावश्यं विलोकनीयाः। शुद्धिपत्रकमपि उपयुज्यैव पठनीयोऽयं ग्रन्थः। धन्यवादः-अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजरूपाः प्राणभूताश्च स्व. आगमप्रभाकरमुनिराज श्री पुण्यविजयजीमहाभागाः, संशोधनोपयोगिनी सामग्र्यपि यावज्जीवं महता परिश्रमेण तैः संगृहीता। अहमदाबादस्थे लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिरे विद्यमानेयं सामग्री तन्नियामकैः 'पं० दलसुखभाई मालवणिया' महोदयैः महता सौजन्येन प्रदत्ता, अपरापि च सामग्री स्थानान्तरत आनाय्य प्रदत्ता। मौजमुद्रणालयस्याधिपतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्रन्थः। सीसकाक्षरसंयोजक (कंपोझीटर)वर्गेणापि महता महता श्रमेण कष्टेनापि च मुद्रणकार्यमिदं पारं प्रापितम् । श्रीमहावीरजैनविद्यालयस्य कार्यवाहकमहानुभावैः जिनागमेषु परमभक्त्या विपुलधनव्ययादिसाध्यं महत् कार्यमिदमङ्गीकृतमस्ति, एतादृशे कार्ये महद् धैर्य व्यवस्था चापेक्ष्येते। श्रीमहावीरजैनविद्यालयस्य महामात्रैः 'श्री कान्तिभाई कोरा' इत्येभिर्महानुभावैः सर्वापीयं मुद्रणप्रकाशनादिव्यवस्था महत्या श्रुतभक्त्या परमेण सौजन्येन कौशल्येन च विहिता। मुनिश्रीधर्मचन्द्रविजयेन प्राग्मुद्रितपत्र(प्रुफ)पठनादिषु विविधेषु कार्येषु अनवरतं साहायकं भक्तिपूर्णचेतसा अनुष्ठितम्। एवमस्य संशोधनादौ विविधप्रकारैः उपकारिणः सर्वेऽपि महानुभावा अनेकशो धन्यवादमर्हन्ति । तस्या एव भगिन्या शांतूनाम्मा(म्न्या) विशालमभिलेख्य। आचारसत्रपस्तकमिह दत्तं श्रीमतिगणिन्यै ॥५॥ इंदुर्यावदमंदमंदरगिरिर्यावत् सुराणां सरिद् , यावद् यावदिलातलं जलनिधिर्यावन्नभोमंडलं । यावत् सांद्रमनिंद्यनंदनवनं यावद् यशोऽस्त्यर्हता, यावत् तावदिह प्रबोधतरणिर्नयादसौ पुस्तकः ॥६॥ एतत् पुस्तकममलं सकलं श्रीधर्मघोषसूरीणां । व्याख्याहेतोरर्पितमिह सद्यः श्रीमतिगणिन्या ॥७॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy