________________
आमुखम्
गुरुचरणप्रणिपातः-अनन्तोपकारिणां पूज्यपादानां पितृचरणानां गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां कृपया कार्यमिदं सम्पन्नम् , तेषां चरणेषु अनन्तशः प्रणिपातं करोमि।।
प्रभुपूजनम्-परमकृपालूनां परमेश्वराणां श्रीशङ्खश्वरपार्श्वनाथप्रभूणां प्रसादात् साहाय्याच्चैव कार्यमिदं सम्पन्नमिति तेषां करकमलेषु अनन्तशः प्रणिपातपूर्वकं भक्तिभरनिर्भरेण चेतसा पुष्पाञ्जलिरूपमेनं ग्रन्थं निधाय प्रभुपूजनं विधाय प्रसीदति मे चेतः।
विक्रमसंवत् २०३२,
आषाढशुकषष्ठी (प्रभुमहावीरच्यवनकल्याणकदिनम्) उंदरा (ता. पाटण) ).
इत्यावेदयतिपूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी
मुनि जम्बूविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org