SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आमुखम् ततः परं गन्धहस्तिविरचितं शस्त्रपरिज्ञा[प्रथमाध्ययन] विवरणमासीत् । एतच्च सम्प्रति नोपलभ्यते । ततः परम् आचाराङ्गचूर्णिः, इयं च अतिप्राचीना सूत्र-नियुक्तिव्याख्या। बौद्धाचार्यनागार्जुनदिङ्नागयोर्वचनानि, ईश्वरकृष्णरचितसांख्यकारिकात उद्धृता कारिका, यापनीयानां निर्देश इत्यादि बहुतरमैतिह्योपयोग्यपि तत्र लभ्यते। ततः परं शीलाचार्यविरचिता महती वृत्तिरुपलभ्यते । इमामेव वृत्तिं प्राधान्येन उपजीव्य कालान्तरेऽन्यैर्विरचिता अनेकाः संक्षिप्ता वृत्तयोऽपि उपलभ्यन्ते। शीलाचार्यस्यैव शीलाङ्काचार्यनाम्ना प्रसिद्धिः। 'आचार्यश्रीशीलांगविरचितायाम् आचारटीकायां द्वितीयश्रुतस्कन्धः परिसमाप्तः' इत्यपि १४६७ वर्षे तालपत्रोपरिलिखितायां शीसं० प्रतौ प्रत्यन्ते दृश्यते । ___ खंभातस्थप्राचीनतरप्रत्यनुसारेण ७८४ शकसंवत्सरे शीलाचार्येण वृत्तिरियं विरचिता। अपरासु प्रतिषु ७९८ शकसंवत्सरे वैशाखशुद्धपञ्चम्यां वृत्तिरियं विरचिता इत्युल्लखो दृश्यते। कासुचित्तु प्रतिषु '७७२ गुप्तवर्षे प्रथमश्रुतस्कन्धवृत्तिः, ७९८ शकवर्षे द्वितीयश्रुतस्कन्धवृत्तिविरचिता' इत्यपि प्रथमश्रुतस्कन्धान्ते द्वितीयश्रुतस्कन्धान्ते च क्रमेणोल्लेखो दृश्यते । दृश्यतां स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणप्रस्तावना। प्रतयः--अस्य संशोधने आधारभूतानामाचाराङ्गसूत्रस्य प्रतीनां संक्षेपत ईदृशं स्वरूपम्शां०= श्रीशान्तिनाथजैनज्ञानभंडार(खंभात)सत्का प्रतिः, क्रमाङ्क १ खं० == श्रीशान्तिनाथजैनज्ञानभंडार(खंभात)सत्का प्रतिः, क्रमाङ्कः ३ जे०=श्रीजिनभद्रसूरिज्ञानभंडार (जेसलमेर)सत्का प्रतिः, क्रमाङ्क १ खे०=खेतरवसीज्ञानभंडार(पाटण)सत्का प्रतिः 'सं० = संघवीपाडाज्ञानभंडार(पाटण)सत्का ह्रस्वा प्रतिः १५"४२" इंचप्रमिता १. अस्याः प्रतेरन्ते यानि लेखकादिनामानि उल्लिखितानि दृश्यन्ते तदनुसारेण वैक्रमस्य त्रयोदशशतकस्योत्तरार्धे प्रतिरियं लिखितेति प्रतीयते। स चायमुल्लेखः सं० प्रत्यन्ते "उत्तुंगः सरलः सुवर्णरुचिरः शाखाविशालच्छविः, सच्छायो गुरुशैललब्धनिलयः पर्वश्रियालंकृतः। सद्वत्तत्वयुतः सुपनगरिमा मुक्ताभिरामः शुचिः, पल्लीपाल इति प्रसिद्धिमगमद् वंशः सुवंशोपमः ॥१॥ निस्तोमः परिपूर्णवृत्तमहिमा मुक्तामणिः प्रोज्ज्वल स्तत्राभूद्विमलोल्लसद्वसुरसौ श्रीचंद्रनामा गृही। श्रीमत्पार्श्वजिनेश्वरस्य सदनव्याजेन येनाहितो, मेदिन्यां स्वयशःप्रकाशधवलः स्फूर्य(ज)किरीटः स्फुटं ॥२॥ तस्यासीद् गृहमेधिनी जिनवचःपीयूषपूर्णश्रुति आई इत्यमिधा बुधैर्मुररिपोर्लक्ष्मीरिव प्रोच्यते। सा प्राचीव विवेकिसाभड-सुधीसामंतसंज्ञौ सुतौ, __सूर्याचंद्रमसाविव स्फुटकरौ धत्ते स्म पुत्राशयौ ॥३॥ आसीत् तद्भगिनी स्ववंशनभसः सच्चंद्रिका निर्मला, नाम्ना श्रीमतिराश्रितागममतिः सद्दर्शनालंकृतिः । श्रुत्वा जैनवचो विवेच्य विविध संसारनिःसारता, सद्यः श्रीजयसिंहसूरिसविधे दीक्षामसावग्रहीत् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy