________________
५८
आचाराङ्गसूत्रस्य तथा, शीलाचार्यादिभिवृत्तिकारैस्तु चतुर्थः शब्दससप्तककः पञ्चमश्च रूपसप्तैकको निर्दिष्टो व्याख्यातश्च तथा। दृश्यतां पृ० २३९ टि० १, पृ० २४७ टि०८।
परिमाणम्-प्रथमश्रुतस्कन्धस्य अष्टादश पदसहस्राणि परिमाणं शास्त्रेषु निर्दिष्टम् । इयं च पारि. भाषिकी पदसंज्ञा। यथा सूत्रान्तरेषु पाठपरिहाण्या कालान्तरेण परिमाणे न्यूनत्वं जातं तथा आचाराङ्गेऽपि ज्ञातव्यम् । सम्प्रति तु ३२ अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनया 'ग्रन्थाग्रं ८००' इति संदी० प्रतौ प्रथमश्रुतस्कन्धान्ते उल्लेखदर्शनात् प्रथमश्रुतस्कन्धस्य ८०० श्लोकाः परिमाणं प्रतीयते। सम्पूर्णस्य तु आचाराङ्गस्य परिमाणं २४५४, २५५४, २६४४, २६५४ इति विविधरूपेण प्रतिषु लिखितं दृश्यते, दृश्यतां सू० २९८ टि०७।।
रचनाशैली-दशवकालिकचूादिषु सूत्रकृताङ्गादिषु च आचाराङ्गस्य रचनाशैली अभिहिता । एतच्च पञ्चमे परिशिष्टे द्रष्टव्यम् । प्रथमश्रुतस्कन्धस्य रचना गद्य-पद्यमिश्रा विलोक्यते, तत्र प्रभूतानि तादृशान्यपि वाक्यानि दृश्यन्ते यानि पद्यांशसदृशानि' प्रतिभान्ति। 'पूर्व सम्पूर्णानि पद्यानि भवेयुः कालान्तरेण तु कस्यचिदंशस्य परिगलनात् खण्डितपद्यरूपाणि वाक्यानि सञ्जातानि' इत्यपि संभवेत् , दृश्यतां पृ० ६५ पं. १० इत्यस्य पञ्चमे परिशिष्टे तुलना । द्वितीयश्रुतस्कन्धे तु षोडशमध्ययनं पद्यात्मकम् , अपराणि तु पञ्चदश अध्ययनानि मुख्यतया गद्यरूपाण्येव। __ पाठपरम्परा-आचाराङ्गसूत्रे कालान्तरेण पाठभेदा अपि सञ्जाताः, ततः चूर्णिकृद्भिः वृत्तिकृद्भिश्च तेषां समक्षं यः पाठ आसीत् तदनुसारेण व्याख्या कृता, अतः उभयोः पाठयोः प्रथमे श्रुतस्कन्धे क्वचित् कचित् स्वत्यो भेदोऽपि दृश्यते; द्वितीये श्रुतस्कन्धे तु भूयान् पाठभेदः, तत्रापि दशमाध्ययनादारभ्य अनेकेषु स्थानेषु अतीव अतीव पाठभेदो दृश्यते, दृश्यतां पृ० २३५ टि० ३, पृ. २४० टि०१, पृ. २७४ टि.७, पृ० २७९ टि.६ इत्यादि । वृत्तिकृदनुसृतपाठपरम्परापेक्षया चूर्णिकृदनुसृता पाठपरम्पराऽतीव प्राचीना प्रायः शोभनतरा च प्रतीयते । सम्प्रति या आचाराङ्गसूत्रस्य वाचना विविधासु प्रतिषूपलभ्यते सा वृत्तिकृदनुसृतपाठपरम्परयैव सह प्रायशः संवदति ।
यापनीयसंवेऽपि आचाराङ्गस्य विभिन्ना विशिष्टा वा पाठपरम्परा आसीत् । केनचिदंशेन श्वेताम्बरतुल्यः केनचिच्चांशेन दिगम्बरतुल्यो यापनीयसंघोऽपि पुरातनकाले आसीत् ।
आचाराङ्गस्यास्य संशोधने आचाराङ्गचूर्णि-वृत्ति-निशीथचूादयो बहवो ग्रन्था अत्र उपयुक्ताः, तेभ्यश्चानेके पाठास्तत्र तत्र टिप्पणेषूद्धताः। तत्र यद्यपि तेषां ग्रन्थानां पृष्ठादिकं मुद्रितग्रन्थानुसारेण निर्दिष्टं तथापि पाठाः प्राचीनहस्तलिखितग्रन्थानुसारेणैव निर्दिष्टाः, अतोऽत्रोद्धृतेषु पाठेषु मुद्रिताद् यत्र भेदो दृश्यते तत्र व्यामोहो न विधेयः । एते च पाठभेदा आ. प्र. मुनिराजश्री पुण्यविजयजीमहोदयैः महता परिश्रमेण प्राचीनतरहस्तलिखितग्रन्थानुसारेण संगृहीताः।
परिशिष्टानि-उपयोगीनि पञ्च परिशिष्टान्यपि अत्र संयोजितानि । आचाराङ्गसूत्रे यत्र स एव तादृशो वा पाठः पुनः पुनरावर्तते तत्र 'जाव' इत्यभिधाय अङ्कनिर्देशं वा विधाय संक्षिप्तः पाठ उपन्यस्तः। एतादृशेषु स्थानेषु 'जाव' शब्दग्राह्या अङ्कग्राह्याश्च पाठा द्वितीयपरिशिष्ट दर्शिताः। पञ्चमे परिशिष्टे जैन-बौद्ध-वैदिकग्रन्थैः सह तुलना क्वचित् क्वचित् कृताऽस्ति, अध्ययननाम्नां स्पष्टीकरणं पाठानां क्वचिच्छुद्धीकरणं चापि तत्र वर्तते ।
व्याख्याः -आचाराङ्गसूत्रस्य सम्प्रति उपलभ्यमानासु व्याख्यासु चतुर्दशपूर्वविदा भगवता भद्रबाहुस्वामिना विरचिता नियुक्तिः प्राचीनतमा व्याख्या। १. यद्यपि षट्सु आद्याध्ययनेषु पञ्चदशैव संपूर्णानि पद्यानि अस्माभिनिर्दिष्टानि तथापि 'द्विपादाद्यात्मिकापि
गाथा भवति' इति श्रावकभूमौ बौद्धाचार्यस्य असङ्गस्य वचनेन बहून्यपि पद्यान्यत्र सम्भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org