________________
॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादप भ्यो नमः । आचार्य महाराजश्रीमद्विजयमेवसूरीश्वरजीपादपद्मेभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मभ्यो नमः ।
आमुखम्
परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया श्रीमाचाराङ्गसूत्रस्य हस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधनं विधाय आगभक्तानां पुरत उपन्यस्यते।
केवलज्ञानोत्पत्त्यनन्तरं चतुर्विंशतितमतीर्थकरेण श्रमणेन भगवता श्रीवीरवर्धमानस्वामिना प्रारब्धां धर्मदेशनामनुसृत्य भगवच्छिष्यैः श्रीगौतमादिभिर्गणधरैः द्वादशाङ्गी प्रणीता, तत्र आचाराङ्गं प्रथममङ्गसूत्रम् । अस्य प्राधान्यं प्राथम्यं च जिनप्रवचनसारभूतत्वादिना हेतुकलापेन आचाराङ्गनियुक्तौ भगवता भद्रबाहुस्वामिना परमेण बहुमानेन वर्णितम् । एतद्विषयका वक्ष्यमाणविषयकाश्च विविधा उल्लेखा गुर्जरभाषानिबद्धायामस्माकं प्रस्तावनायां विस्तरेण द्रष्टव्याः ।
आचाराङ्गसूत्रस्य द्वौ श्रुतस्कन्धौ । तत्र प्रथम आचाराख्यः श्रुतस्कन्धो ब्रह्मचर्यनाम्नापि–नवाध्ययनास्मकत्वाद् नवब्रह्मचर्यनाम्नापि–प्रसिद्धः। तस्यैव चूलिकारूपो द्वितीयस्तु श्रुतस्कन्धः 'अग्र'नाम्ना 'आचाराग्र'नाम्ना वा व्यपदिश्यते। द्वितीये श्रुतस्कन्धे पञ्च चूलाः, तासु पञ्चमी निशीथाख्या चूला आचाराङ्गात् पृथक्कृत्य निशीथसूत्रनाम्ना पृथक् सूत्ररूपेण चिराद् व्यवढियते, चूर्णिकृतः शीलाचार्यादयश्चापि आचाराङ्गसूत्रस्य चतुर्थचूलिकापर्यन्तं व्याख्यां कृतवन्तः, अतोऽत्र प्रथमः श्रुतस्कन्धः चूलाचतुष्टयात्मको द्वितीयश्च श्रुतस्कन्धः आचाराङ्गसूत्ररूपेण मुद्रयित्वा प्रकाश्यते।
रचयितारः-आचाराङ्गसूत्रस्य प्रथमः श्रुतस्कन्धस्तावत् पञ्चमेन गणधरेण भगवता सुधर्मस्वामिना प्रणीत इति सर्वसम्मतम् । द्वितीयस्य तु श्रुतस्कन्धस्य रचनायां विविधा निर्देशाः प्राप्यन्ते-'आचाराग्राणि स्थविरैर्विरचितानि' इति आचाराङ्गनिर्युक्तौ भद्रबाहुस्वामिनः, अत्र 'स्थविराः-गणधराः' इति आचाराङ्गचूर्णिकाराः, 'स्थविराः-श्रुतवृद्धाः चतुर्दशपूर्वविदः' इति आचाराङ्गवृत्तिकृतः शीलाचार्याः । तृतीय चतुर्यो चूलिके स्थूलभद्रस्य भगिन्या यक्षया साध्व्या महाविदेहक्षेत्रतः [भगवतः सीमन्धरस्वामिनः सकाशात् ] आनीते इत्यपि आवश्यकचर्णि-परिशिष्टपर्वादौ श्रूयते । आचारप्रकल्पो भगवता भद्रबाहुस्वामिना नवमपूर्वतो नियूंढ इति पञ्चकल्पभाष्यचूर्णिकाराः, आचारप्रकल्पो निशीथस्यैव नामान्तरम् ।
अध्ययनक्रमः-आचाराङ्गस्य प्रथमे श्रुतस्कन्धे नवाध्ययनानि, तत्र सप्तमस्य महापरिक्षाख्यास्याध्ययनस्य पठन-पाठनपरंपरा चूर्णिकृतां समये नासीदिति 'संपतं महापरिण्णा ण पढिजइ' इति आचाराङ्गचूर्णिकृतां वचनादवसीयते, 'तच्च व्यवच्छिन्नम्' इति वचनाद् वृत्तिकृतां शीलाचार्याणां समये तु तस्य व्यवच्छेद आसीदिति स्पष्टमेव प्रतीयते। दृश्यतां पृ० ६९ टि० १।
प्रथमश्रुतस्कन्धेऽध्ययनानां यः क्रम आचाराङ्गनियुक्त्यादावुपलभ्यते स एव षष्ठमध्ययनं यावत् समवायाङ्गसूत्रादौ दृश्यते, सप्तमाष्टमनवमाध्ययनानां क्रमे तु तत्र भेदो दृश्यते।
द्वितीये श्रुतस्कन्धे प्रथमायां चूलायां सप्ताध्ययनानि, द्वितीयायां सप्तककाभिधायामपि सप्ताध्ययनानि, तृतीयायां चतुर्थ्यां च चूलायामेकैकमध्ययनमिति सर्वसंख्यया षोडशाध्ययनानि। तत्र द्वितीयायां चूलायां यानि सप्त अध्ययनानि तत्र चूर्णिकृद्भिः चतुर्थो रूपसप्तैककः पञ्चमश्च शब्दसप्तैकको निर्दिष्टो व्याख्यातच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org