________________
कतिपयानि विशिष्टानि टिप्पणानि
" महताहतं आहतं नाम आख्याणकनिबद्धं, नञ्चिज्जति गिज्जति वाइज्जति य जहा नाडगं प्रबंधा वा, तंती वीणा बब्बीसगादि तंतं ति भण्णति, तला हस्ततलः, ताला कंसालगादि, तुडितं सव्वमेव आतो, घणं लत्तिगा-लकुडगादि, मुतंगं विततादि, पटू जाणगा, पडूहिं पवाइयं पडुप्पवाइयं, रवो निग्घोसो, घणवाइतं, घणा मेघा, तेसिं निग्घोसो मेघरव इत्यर्थः” इति दशाश्रुतस्कन्धचूर्णौ पृ० ९१ ।
पृ० २६० पं० ४ अणुकंपणं.. । तुलना - " हिवाणुकंपएणं देवेणं ति हितो सकस्स अपणो य, अणुकंपतो भगवतो ” इति दशाश्रुतस्कन्धचूर्णौ पृ० ६४ ।
पृ० २६१ पं० २,१४ साहरिज्जमाणे वि जाणति । आचाराङ्गसूत्रे 'साहरिज्जमाणे वि जाणति' इति पाठ उपलभ्यते, कल्पसूत्रे तु 'साहरिजमाणे नो जाणइ' इति पाठ उपलभ्यते । अस्मिन् विषये प्राचीना अर्वाचीनाश्च उल्लेखा एवं समुपलभ्यन्ते
“ तेणं कालेणं तेणं समएणं भगवं तिष्णाणोवगते यावि होत्था साहरिजिस्सामीति जाणति, साहरिमाणे जाणति, साहरिए मित्ति जाणइ ” इति आवश्यकचूर्णौ पृ० २४० ।
" भयवं पि तिन्नाणोवगए साहरिज्जिस्सामीति जाणइ | साहरिज्जमाणे जाणइ, साहरणस्यानेकसामयिकतया छद्मस्थोपयोगविषयत्वात् । साहरिए मि त्ति जाणइ " इति आवश्यकसूत्रस्य मलयगिरीयायां वृत्तौ पृ० २५४ ।
कल्पसूत्रे तु 'साहरिजमाणे नो जाणइ' इति पाठ उपलभ्यते, अस्य विवरणं विविधासु कल्पसूत्रवृत्तिष्वेवं दृश्यते
<< 'ननु संह्रियमाणो न जानाती' ति कथं युक्तं संहरणस्य असङ्ख्यसामयिकत्वात् भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्त्वात् ? उच्यते
इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं भगवतः यथा भगवतः ज्ञातमपि अज्ञातमिवाभूत् पीडाऽभावात्, तथा कश्चिद् वदति त्वया मम पादात् तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति । ” इति विनयविजयोपाध्यायरचितायां कल्पसूत्रवृत्तौ सुबोधिकायाम् ।
" तत्र संहरणमपि च्यवनवदेव, नवरं संहियमाणः पुनर्न जानाति, तत्र ज्ञानागोचरत्वे संहरणस्यैकसामयिकत्वं हेतुरिति केचित् केचित् पुनरान्त मौहूर्तिकत्वेऽपि छाद्मस्थिकोपयोगापेक्षया संहरणकालस्य सूक्ष्मतरत्वमित्युभयथाऽपि विचार्यमाणं न चेतश्चमत्करोति, यतस्तत्कर्तुरुपयोगविषयत्वेनैकसामयिकत्वं हरिनैगमेष्यपेक्षया विशिष्टज्ञानशक्तिमतो भगवतो ज्ञानागोचरत्वं चेत्युभयमपि विरुध्येत, तस्माद् दिव्यशक्तिवशाद् अल्पेनैव कालेन तेन तथा संहरणं विहितं यथा भगवतो न मनागपि बाधाऽभूदित्यर्थवत्त्वेन साहरिज्जमाणे नो जाणह त्ति विशेषणं भगवतः संहरणे सर्वथाऽनाबाधसंसूचकम् । अनाबाधावस्थायां च सत्यपि ज्ञानगोचरत्वे तदगोचरत्वव्यपदेशः सुप्रतीत एव, यतः --
' तहिं देवा वंतरिया वरतरुणीगीअवाइअरवेणं ।
नि सुहिया (य) पमुइआ गयं पि कालं न याणंति ॥ ति ।
लोकेऽप्यतिसुखितो ब्रूते यद् 'मयाऽद्य यावद् गच्छन् कालो नावगत' इति । किञ्च सूक्ष्मत्वमधिकृत्य ज्ञानागोचरत्वे सर्वथा ज्ञानाभावः सम्पद्यते, निराबाधत्वमधिकृत्य तु तथा वक्तव्ये कथञ्चिद् ज्ञानागोचरत्वमपि न विरुध्येत । तथा च 'साहरिजमाणे वि जाणइ' त्ति नाऽऽचाराङ्गविरोधोऽपीत्येवमपि व्याख्यानं घटत इति विचार्य यथागमं चतुरैर्विचार्यमिति । " इति धर्मसागरोपाध्यायविरचितायां कल्पसूत्रवृत्तौ किरणावल्याम्, पृ० ४४ ।
" साहरिजिस्सामि त्ति इत्यादि च्यवनवद् ज्ञेयम्, परमत्र 'साहरिजमाणे नो जाणइ ' इति हरिनैगमेषिणा हि दिव्यशक्तिनाऽल्पेनैव कालेन तथा संहरणं कृतं यथा भगवतो न मनागपि
Jain Education International
For Private & Personal Use Only
४११
www.jainelibrary.org