________________
४१२
आचाराङ्गसूत्रे पञ्चमं परिशिष्टम् । बाधाऽभूत् , किन्तु सौख्यमेव, तथा च ज्ञातमपि संहरणमज्ञातमिवेति व्यपदिश्यते । सौख्यातिरेके हि सत्येवंविधव्यपदेशस्य सार्वजनीनत्वात् स्वसमयप्रसिद्धत्वाच्च, तथोक्तम्-तहिं 'देवा वंतरिया..." ' एवं च ‘साहरिजमाणे वि जाणइ' इत्याचारागसूत्रेण सह विसंवादोऽपि न स्यात् । यत् तु केचित् संहरणज्ञानाभावे संहरणस्यैकसामयिकत्वं आन्तमौहर्तिकत्वेऽपि सूक्ष्मत्वाच्छद्मस्थस्योपयोगागोचरत्वं च हेतू प्रोचुः तौ विचार्यों, संहरणकर्तुरपि छद्मस्थत्वात् संहरणस्य कर्तृज्ञानविषयत्वात् कञपेक्षया च भगवतोऽतिविशिष्टज्ञानशक्तिमत्त्वाद् इति ध्येयम् । अन्यथा वा यथा बहुश्रुतानुमतं भवति तथा व्याख्येयम्" इति जयविजयगणिविरचितायां कल्पसूत्रवृत्तौ दीपिकायां पृ० ३७ । __ "श्रमणो भगवान् महावीरो यदा देवानन्दाया ब्राह्मण्याः कुक्षौ आसीत् तदा त्रिज्ञानेन एवं जानाति स्म-इदानीं शक्राज्ञया हरिणेगमेषी देवः समेष्यतिः मां गृहीत्वा त्रिशलाक्षत्रियाण्याः कुक्षौ सञ्चारयिष्यति; यदा च संहरति तत् कालं न जानाति, तस्य कालस्यात्यन्तसूक्ष्मत्वात् ; पुनः त्रिशलायाः कुक्षौ आनयनानन्तरं जानाति ।” इति लक्ष्मीवल्लभोपाध्यायरचितायां कल्पसूत्रवृत्तौ कल्पद्रुमकलिकायां पृ० ५५। ___“साहरिजिस्सामि इत्यादि च्यवनवद् ज्ञेयम् , संहरणस्याप्येकसामयिकत्वात् । यद्यपि चान्तर्मुहूर्तकालोऽप्यत्र सम्भाव्यते तथापि छानस्थिकोपयोगादपि संहरणकालः सूक्ष्मतर इत्याम्नायिकाः। केचित्त 'साहरिजमाणे जाणइ'त्ति पठन्ति, न चायं पाठः सार्वत्रिकः" इति विक्रमसंवत १३६४ वर्षे] जिनप्रभसूरिरचितायां कल्पसूत्रवृत्तौ सन्देहविषौषघौ । ___तत्र ‘साहरिजिस्सामि 'त्ति च्यवनवद् ज्ञेयम् , संहरणस्याप्येकसामयिकत्वात् । यद्यपि चाऽन्तर्मुहूर्तकालोऽत्र सम्भाव्यते तथापि छानस्थिकोपयोगादपि संहरणकालः सूक्ष्मतरः इत्याम्नायिकाः। केचित् तु 'साहरिजमाणे वि जाणइ' त्ति पठन्ति, भाचाराने तथैव दर्शनात् , न चायं पाठः सार्वत्रिकः ॥” इति संघविजयगणिसंकलितायां कल्पसूत्रवृत्तौ प्रदीपिकायां पृ० ३२।
पृ० २६७ पं० ११-१२ मरुतो। दिगम्बरपरम्परायामजीकृते तत्त्वार्थसूत्रे मरुतो इति पदं नास्ति, 'सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च' इत्येव तत्र पाठ इत्यपि ध्येयम् ॥
२६७ पं० २५ “आतोधिए त्ति अन्भंतरोधी। पाईणगामिणी पुन्वदिसाणामिणी छाया। मंजुमंजुणा घोसेण अपडिबुज्झमाणे त्ति ण णजति को किं जंपति।" इति दशाश्रतस्कन्धो पृ०६५।
पृ. २७७ पं. ७ “वियावत्तस्स चेतियस्स, वियावत्तं णामेणं, वियावत्तं वा व्यावृत्तं चेतियतणाओ, जिण्णुजाणमित्यर्थः। कट्ठकरणं क्षेत्रं। आवीकम्मं पगासकम्भ। रहोकम्मं पच्छन्नकम्म। सेसं कंठं।" इति दशाश्रुतस्कन्धचूर्णौ पृ० ६५। पृ० २७७ पं० ९ उड्ढं जाणुं । तुलना
“अधःशिराश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने॥८१॥ क्षणाच्च किञ्चिदधिकमभ्यसेच्च दिने दिने। वलितं पलितं चैव षण्मासोच न दृश्यते॥ याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित् ॥ ८२॥"
-हठयोगप्रदीपिका ३१८१-८२॥ पृ० २८६ पं० १० संदी० प्रतौ चउत्थं भंते ! महव्वयं इति पाठोऽस्त्येव ।
पृ० २९७ पं० ३ । तुलना-"जमाहु ओहं सलिलं अपारगं जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं दुहतो वि लोयं अणुसंचरंति ॥ १२॥१४॥” इति सूत्रकृताङ्गे सू० ५४८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org