________________
२९२
आयारंगसुत्ते बीए सुयक्खंधे
[सू० ७९०
साधुः समाहितः सन् संयमे मणोवइ त्ति अदुष्टं मनः प्रवर्तयेत् , दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् , चतुर्थी भावना। एवं वाचमपि पञ्चमी भावना। गताः प्रथमवतभावनाः।।
द्वितीयव्रतभावनाः प्रोच्यन्ते-अहस्ससच्चे त्ति अहास्यात् सत्यः, हास्यपरित्यागादित्यर्थः। हास्यादनृतमपि ब्रूयात् , अतो हास्यपरित्यागः प्रथमा भावना। अनुविचिन्त्य पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात , द्वितीयभावना। यः क्रोधं लोभं भयमेव वा त्यजेत् स इत्थंभूतो दीर्घरात्रं मोक्षं समुपेक्ष्य सामीप्येन दृष्ट्वा 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृत. भाषणात् , इति भावनात्रयम् । गता द्वितीयवतभावनाः।
तृतीयव्रतभावनाः प्रोच्यन्ते स्वयमेव आत्मनैव प्रभु प्रभुसन्दिष्टं वाऽधिकृत्य अवग्रहयाच्माया प्रवर्तेत अनुविचिन्त्य, अन्यथाऽदत्तं गृह्णीयात्, प्रथमा भावना। 'घडे मइमं निसम्म' ति तत्रैव तृणाद्यनुज्ञापनायां चेटेत मतिमान् निशम्य आकर्ण्य प्रतिग्रहप्रदातृ(प्रदान-प्र०)वचनम्, अन्यथा तददत्तं गृह्णीयात् परिभोग इति द्वितीया भावना। 'सइ भिक्खु उग्गहं' ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं गृह्णीयात् , तृतीया भावना। अनुज्ञाप्य गुरुमन्य वा भुञ्जीत पान-भोजनम् , अन्यथाऽदत्तं भुञ्जीत, चतुर्थी भावना। याचित्वा साधर्मिकाणामवप्रहं स्थानादि कुर्यात् , अन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना। उक्तास्तृतीयवतभावनाः।
साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते-आहारगुत्ते त्ति आहारगुप्तः स्यात्, नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात्, प्रथमा भावना। अविभूषितात्मा स्यात्, विभूषां न कुर्यात, अन्यथा ब्रह्मविराधकः स्यात्, द्वितीया भावना। त्रियं न निरीक्षेत, तदव्यतिरिक्ततदिन्द्रियाणि नालोकयेत्, अन्यथा ब्रह्मविराधकः स्यात्, तृतीया भावना। न संथवेज्ज त्ति न स्त्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मव्रतविराधकः स्यात्, चतुर्थी भावना। बुद्धः-अवगततत्त्वः, मुनिः-साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथा स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात्, पञ्चमी भावना। 'धम्माणुपेही संधए बंभचेरं'ति निगदसिद्धम् । उक्ताश्चतुर्थवतभावनाः।।
पञ्चमवतभावनाःप्रोच्यन्ते-यःशब्द-रूप-रस-गन्धानागतान्, प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च सम्प्राप्य मनोज्ञ-पापकान् इष्टानिष्टानित्यर्थः, गृद्धिमभिष्वङ्गलक्षणाम् , प्रद्वेषः प्रकटः, तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वज्ञादेः पञ्चममहावतविराधना स्यात् । पञ्चापि भावनाः उक्ताः पञ्चमहावतभावनाः। अथवाऽसम्मोहाथै यथाक्रमं प्रकटार्थाभिरेव भाज्यगाथाभिः प्रोच्यन्ते
पणवीसभावणाओ पंचण्ड महन्वयाणमेयाओ। भणियाओ जिण-गणहरपुज्जेहिं नवर सुत्तम्मि॥१॥ इरियासमिइ पढमं आलोइय भत्त(अण्ण-चू०)पाणभोई य। आयाणभंडनिक्खेवणा य समिई भवे तइया ॥२॥ मणसमिई वयसमिई पाणइवायम्मि होति पंचेता। हासपरिहार अणुवीइ भासणा कोह-लोभ-भयपरिण्णा(भए-चू०) ॥३॥ एस मुसावायस्स अदिलदाणस्स हतिमा पंच। पहुसंदिट्ठ पहुं वा पढमोग्गह जाएं अणुवीई ॥४॥ उग्गहणसील बिइया तत्थो तत्तो-चू०) गेण्हेज उग्गहं जहियं। तग-डगल-मल्लगाई अणुण्णवेजा तहिं (तयं-प्र०) तहियं ॥५॥ तच्चम्मि उग्गहं तू (उग्गहन्नू-चू०) अणुण्णवे सारि उग्गहे जाव। तावइय मेर काउंन कप्पइ बाहिरा तस्स (बाहि एतस्स-चू०) ॥६॥ भावण चउत्थ साहम्मियाण सामण्णमण्णपाणं तु। संघाडग. माईणं भुंजेज अणुण्णविय ए (ते-चू०) उ॥७॥ पंचमियं गंतूणं साहम्मियउग्गह(हे-चू०) अणुण्णविया। ठाणाई चेएजा पंचेव अदिण्ण(पंचेताऽदिण्ण-चू०)दाणस्स ॥८॥ बंभवयभावणाओ णो अइमाया-पणीयमाहारे। दोच अविभूसणा उ विभूमवत्ती न उ हवेजा ॥९॥ तचा भावण इत्थीण इंदिया मणहरा ण णिज्झाए। सयणासणा विवित्ता इत्थि-पसुविवज्जिया सेवे॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org