________________
आमुखम् अथ कागदपत्रोपरि लिखिताः पञ्च समवायाङ्गसूत्रादर्शाः
पाटणनगरे श्रीहेमचन्द्राचार्यजैनशानमन्दिरे विद्यमानं प्रतिद्वयम् । ला: लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिरे अहमदाबादनगरे विद्यमानं प्रतिद्वयम् । लार
T=स्व० आगमप्रभाकरमुनिराजश्री पुण्यविजयजीमहोदयैरुपयुक्ता प्रतिः। एषां पञ्चानामप्यादर्शानां स्वरूपं गुर्जरभाषानिबद्धप्रस्तावनातो विशेषतो ज्ञातव्यम्।
मभयदेवसूरिविरचितायाः समवायाजवृत्तेईस्तलिखिता आदर्शा अप्यस्य संशोधने उपयुक्ताः। तत्र 'जे जे ! खं.' इति त्रयाणां तालपत्रोपरि लिखितानामादर्शानां स्वरूप प्रागेव [पृ० ६५०१-१३] अस्मिन्नामुखे वर्णितम् । एका कागदोपरि लिखिता H. = पाटणनगरे श्रीहेमचन्द्राचार्यजैनशानमन्दिरे विद्यमाना प्रतिरप्यत्रोपयुक्ता । अस्याः स्वरूपं गुर्जरभाषानिबद्धायां प्रस्तावनायां द्रष्टव्यम् ।
आगमोदयसमित्या प्रकाशितम् अभयदेवसूरिविरचितवृत्तिसहितं समवायाङ्गसूत्रमप्यत्रोपयुक्तम्, अस्य च मु० = मुद्रितम्] इति संज्ञा।
किञ्चान्यत् , हस्तलिखितादर्शेषु पूर्वमन्यलिखित्वा पश्चात् केनचिद् विहितं संशोधनमपि दृश्यते । ईदृशेषु स्थलेषु पूर्वलिखितः पाठोऽपि अनेकेषु स्थानेषु समीचीन इत्यस्माकं मतिः। एतज्ज्ञापनार्थ तत्तसंकतैः सह मू० इति सं० इति वा संयोज्य अनेकेषु स्थानेषु अस्माभिः संकेतितम् , यथा पामू. = पा० प्रती पूर्व लिखितः मूलपाठः, पासं० =पा. प्रतौ पश्चात् केनचित् संशोधितः पाठः। एवं जे। इत्यत्र 'जेमू 1, जेसं० ।' इत्यादिष्वपि शेयम् । अटी० इति संकेतेन मभयदेवसूरिविरचिता यथायोगं स्थानाङ्गस्य समवायाङ्गस्य वा टीका सर्वत्र ज्ञातव्या।
धन्यवादः-अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व. आगमप्रभाकरपूज्यपादमुनिराजभीपुण्यविजयजीमहाभागाः। एतद्वन्यसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संग्रहीताऽऽसीत् ।।
सेयं सामग्री अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरेऽस्ति । सा च तत्रत्यभूतपूर्वनियामकानां 'पं. दलसुखभाई मालवणिया-डॉ० नगीनभाई नीवणभाई शाह' महोदयानां सौजन्यात् 'पं० अमृतलालभाई मोहनलाल भोजक' महाशयानां साहायकाच लब्धा।
किंच
धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपप्रहै.
___ स्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा
शक्यं पुस्तकलेखनेन कृतिभिः कार्यःतदर्थोऽर्थवान् ॥१०॥ श्रुत्वेति संघसमवायविधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशद्धयै बद्धादरश्विरमलेखयदेष हृष्टः ॥११॥ यावजिनमतभानुः प्रकाशिताशेषवस्तुविस्तारः ।
जगति जयतीह पुस्तकमिदं सुधैर्वाच्यतां तावत् ॥१२॥छ॥ संवत् १३४९ वर्षे माघसुदि १३ अयेह दयावटे श्रे० होना श्रे० कुमरसींह श्रे० सोमप्रमृतिसंघसमवायसमारब्धपुस्तकभाण्डागारे ले० सीहाकेन श्री समवायवृत्तिपुस्तकं लिखितम् ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org