SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५० आमुखम् मु. प्रतेः सम्पादकैः स्व० पूज्यपादागमोद्धारकसागरानन्दसूरीश्वरैर्महता परिश्रमेण जैनागमादिकिशालग्रन्थराशेः संशोधनं प्रकाशनं च विधाय महानुपकारो विहितः। .. पा० क. हे १, २ प्रतयः पाटणनगरे ‘संघवीपाडाभण्डारस्य व्यवस्थापकानां 'स्व. सेवेतिलाल छोरालाल पटवा' इत्येतेषां पुत्राणां श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरस्य व्यवस्थापकानां 'डॉ० सेवंतिलाल मोहनलाल' इत्येतेषां च सौजन्यालब्धाः। ला०. १, २, ३, ४, ५ प्रतयोऽन्यापि च तत्रत्या सामग्री अहमदाबादनगरे लालभाई-दलपतभाईभारतीयसंस्कृतिविद्यामन्दिरस्य व्यवस्थापकानां सौजन्यालब्धाः । खं० प्रतिः खम्भातनगरस्थश्रीशान्तिनाथतालपत्रीयग्रन्थभण्डारव्यवस्थापकानां तथा 'पं० छबीलदास केसरीचंद' इत्येतेषां सौजन्यालब्धा। जे. प्रतेः माइक्रोफिल्मरूपं (Micro-film) प्रतिबिम्ब जेसलमेर-लोद्रवातीर्थव्यवस्थापकानां सौजन्यादौदार्यात् , सेवामन्दिर (गवटी, जोधपुर) सञ्चालकानां श्रीजौहरीमलपारेखमहाशयानां साहायकाकाञ्च लब्धम्। श्रीमहावीरजैनविद्यालयस्य कार्यवाहकमहानुभावैर्जिनागमेषु परमभक्त्याङ्गीकृतमिदं विपुलधनराशिव्ययादिसाध्य जैनागमानां प्रकाशनकार्यम् । तैरेव चैतत्संशोधनद्वारा जिनवचनाराधनाया आराधनावसरोऽयं मह्यं प्रदत्तः। _श्रीमहावीरजैन विद्यालयस्य डिरेक्टर श्री कान्तिभाई डाह्याभाई कोरा' इत्येभिर्महानुभावैः सर्वाऽपीयं मुद्रण-प्रकाशनादिकार्यव्यवस्था महत्या श्रुतभक्त्या परमेण सौजन्येन कौशल्येन महता परिश्रमेण धैर्येण च पार प्रापिता। . मौजमुद्रणालयस्याधिपतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्रन्थः। सीसकाक्षरसंयोजक(= कंपोझीटर)वर्गेणापि महता श्रमेण कष्टेन च मुद्रणकार्यमिदं पारं प्रापितम्। मदीयमातृष्वसुः साध्वीश्रीकञ्चनप्रियः शिष्याया पुण्याश्च साध्याः श्रीरापण्यश्रियः परिवारेण शन्दसूचादीन्यनेकानि परिशिष्टानि निर्मितानि। मद्विनेयमुनिश्रीधर्मचन्द्रविजयभगिन्याः साध्वीश्रीचन्द्रोदयाश्रियः परिवारेणापि एकपरिशिष्टनिर्माणे साहायकमनुष्ठितम्। 'मम वयोवृद्धो देवतुल्यः प्रथमशिष्यः स्व० मुनिश्रीदेवभद्रविजयः, तथा मम माता साध्वीश्री मनोहर श्रीरपि कार्यमिदमाशिषा उपबृंहितवन्तौ। मम अन्तेवासिना विनेयेन मुनिश्रीधर्मचन्द्रविजयेन परिशिष्टविधान-प्रथममुद्रितपत्र(प्रुफ)पठनादिषु नानाविधेषु कार्येषु अनवरतं साहायकं भक्तिपूर्णचेतसाऽनुष्ठितम्। .. एवमस्य संशोधनादौ विविधैः प्रकारैः साक्षात् परम्परया वा साहायकं विहितवन्तः सर्वेऽपि महानुभावा अनेकयो धन्यवादमर्हन्ति। देव-गुरुचरणप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशङ्खश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्रीभुवनविजयजीमहाराजानां च कृपया साहाय्याचैव कार्यमिदं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय, इह वेहग्रामे जिनालये विराजमानस्य चरमतीर्थपतेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy