SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ आमुखम् ( १, २) जे० = जेसलमेरस्थं सूचिपत्रानुसारेण 'क्रमाङ्क ८, ९ इत्यादर्शद्वयम् । क्रमाङ्क ८ मध्ये १-४५ पत्रेषु मूलमात्रमस्ति । ४६ - १३४ पत्रेषु विक्रमसंवत् ११२० वर्षे अभयदेवसूरिभिर्विरचिता समवायाज्ञवृत्तिर्वर्तते । विक्रमसंवत् १४८७ वर्षे लिखितेयं प्रतिः । मानं ३३ ॥ ४२ ॥ इंच । एतद्रन्थमुद्रणानन्तरमियं प्रतिर्लब्धा, अतोऽष्टमे परिशिष्टे टिप्पणे, पृ० ४१७-४१८, ४३१-४३६, ४४५-४४८, ४६५-४६६, ४७९-४८० मध्ये पाठभेदोपदर्शने च अस्य 'जे' संकेतेन उपयोगो विहितोऽत्र । क्रमाङ्क ९ मध्ये १-६४ पत्रेषु मूलमात्रं समवायाङ्गम् । ६५-२१५ पत्रेषु अभय देवसूरिविरचिता वृत्तिर्वर्तते । अस्य जे० इति जे २ इति वा संकेतो ज्ञेयः । एतद्रन्थमुद्रणानन्तरमेव अश्या वृत्तेः प्रतिबिम्बं [फोटोकोपी] अस्माभिर्लब्धम् । अतष्टिप्पणादिष्वस्योपयोगोऽष्टमपरिशिष्टादौ विहितः । २७४२ इंच । अस्य मानं (३) खं०= खम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । क्रमाङ्कः ३७। १- ९७ पत्रेषु समवायाङ्गसूत्रं मूलमात्रम् । ९८ - ३३० पत्रेषु अभयदेवसूरिभिर्विक्रमसंवत् १९२० वर्षे विरचिता समवायाङ्गसूत्रवृत्तिर्वर्तते । १५४२ ॥ इंच अस्या मानम् । १. एतदन्ते ईदृशं लिखितं वर्तते Jain Education International " नमः श्रीवर्धमानाय वर्धमानाय वेदसा | वेदसारं परं ब्रह्म ब्रह्मबद्धस्थितिश्च यः ॥ १॥ स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ २॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षैकदक्षः सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रैकचूडामणि जिन सुगुरूपासनावासनायाः संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ॥ ३ ॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकश्रेष्ठः शिष्टधीररिसिंहकः ॥ ४ ॥ कडुयाकः सुश्रेष्ठी सांगाक इति सत्तमः । खम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ॥ ५ ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचार चारु क्रियासमाचारशुचिव्रतानाम् ॥ ६ ॥ श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्रीपूज्य देवेन्द्रसूरीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ॥७॥ तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ ८ ॥ विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावनाः का स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ ९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy