SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४७ आमुखम् इदं तु ध्येयम्-हस्तलिखितादर्शेषु यत्र सूत्रं तत्र केवलं सूत्रमेव मूलमानं लिखितं वर्तते, यत्र वृत्तिः तत्र केवला वृत्तिरेव [मूलसूत्रविरहिता] लिखिता वर्तते । . (२)क० = पाटणनगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता प्रतिः। तपगच्छसंघभण्डारसत्केयं प्रतिः डाबडो ७३, पोथीनंबर ८६ मध्ये वर्तते। १३तः १९५ पर्यन्तं पत्राणि वर्तन्ते, तत्रापि कियन्ति पत्राणि न सन्ति । १३ तः पूर्वाण्यपि पत्राणि न सन्ति, केषांचित् खण्डाः प्राप्यन्ते । १९५ तोऽनन्तरं पत्राणि न सन्ति । ७७६ तमे सूत्रे पृ० ३१८ पं० ७ पर्यन्तमेव प्रतिरियमुपलभ्यते । अपर्णेयं प्रतिः। अक्षराणि अतिसन्दराणि। मानमस्याः १४४२ इंच। (३) पा० = पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता 'संघवीपाडाभंडार'सत्केयं प्रतिः। पत्राणि ३६९ तः ४६८। संघवीपाडाभंडारसूचिपत्रानुसारेण क्रमाङ्कः ३१/२ । मानमस्या ३१४१॥ इंच। अथ कागदपत्रोपरि लिखिताः पञ्च सूत्रादर्शा:ला १ ) एते पञ्चापि कागजोपरि लिखिता आदर्शा लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे ला २ | [अहमदाबाद ९] वर्तन्ते। एतेषामधिकः परिचयः गुर्जरभाषानिबद्धायां प्रस्तावनायां ला ३ जिज्ञासुभिर्विलोकनीयः। ला ४ मु०=आगमोदयसमित्या ईसवीये १९१८-१९२० वर्षयोः प्रकाशिता, संवत् ११२० वर्षे अभयदेवसूरिविरचितया टीकया सहिता, एका मुद्रिता प्रतिरप्युपयुक्तात्र । सा च मु० इति संकेतितात्र । मु०मध्ये विद्यमाना बहवोऽत्यन्तमशुद्धा अपि पाठभेदा अशुद्धपाठोपदर्शनार्थ टिप्पणेषूपन्यस्ताः, यथा पृ० ३८७ टि.२॥ ध० = इसवीये १८८० वर्षे राय धनपतसिंहमहोदयैः कालिकातानगरे प्रकाशितम् अभयदेवसूरिविरचितवृत्तिसहितं स्थानाङ्गसूत्रमपि क्वचित् [पृ० ३१९ टि०१०] उपयुक्तमत्र । तस्य च ध० इति सङ्केतः। अस्य स्थानाङ्गस्य संशोधने अभयदेवसूरिविरचितायाष्टीकाया हस्तलिखितादर्शा अपि उपयुक्ताः। तेषु त्रयस्तालपत्रोपरि लिखिताः (१.२) J जे०=जेसलमेरस्थं तालपत्रोपरि लिखितमादर्शद्वयम् , सूचिपत्रानुसारेण क्रमाङ्कः ६, क्रमाङ्कः ७। क्रमाङ्क ६ मध्ये १-३४९ पत्रेषु स्थानाङ्गसूत्रवृत्तिरेव केवला वर्तते, अस्याः मानं ३४४२ इंच । क्रमाङ्क '७' स्वरूपं पृ० ४ पं० २८ मध्ये प्राग व्यावर्णितमेव । (३) s. = पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना तालपत्रोपरि लिखिता प्रतिः। पत्राणि १-३६८ । क्रमाङ्कः सूचिपत्रानुसारेण ३८ । मानं ३१४१॥ इंच। कागदोपरि लिखितास्त्रय आदर्शाः(१) A. = पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना प्रतिः। (२) H. = पाटणनगरे श्री हेमचन्द्राचार्यजैनशानमन्दिरे विद्यमाना प्रतिः। अनयोः स्वरूपं गुर्जरभाषानिबद्धप्रस्तावनातो ज्ञेयम् । (३) B. = स्व० पू० मुनिराजश्री पुण्यविजयमहोदयैरुपयुक्तेयं प्रतिः। तैः संगृहीताः पाठभेदा एवात्रास्माभिरूपयुक्ताः। कुत्रत्येयं प्रतिरिति वयं न जानीमः। मु० ध० आदर्शयोः स्वरूपमुपरि वर्णितमेव । अथ समवायाजसूत्रस्य संशोधने आधारभूताः हस्तलिखिताः सूत्रादर्शाः। तत्रादौ त्रयस्तालपत्रोपरि लिखिता आदर्शा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy