________________
४६
आमुखम् • परिशिष्टानि-अत्र अष्टौ परिशिष्टानि संयोजितानि, तत्र च विशिष्ट शब्दसूच्यादिकं वर्तते। स्थानागसमवायाङ्गयोः समानविषयकत्वात् दशस्थानं यावत् अनेकानि शब्दतोऽर्थतो वा समानप्रायाणि सूत्राणि सन्ति, परस्परं तेषां तुला तृतीये परिशिष्टे वर्तते, स्थानाङ्ग-समवायाङ्गयोः परस्परं ग्रन्थान्तरैश्च सह तुला सप्तमे परिशिष्टे द्रष्टव्या। सन्ति स्थानाङ्गेऽनेके विषया येषां शब्दतोऽर्थतो वा महताऽल्पीयसा वांशेन साम्यं पालित्रिपिटकान्तर्गतैः बौद्धग्रन्थैः सह विद्यते, तदुपदर्शनार्थ चतुर्थ परिशिष्टं संयोजितम्। अंगुत्तरनिकायात् (=एकोत्तरनिकायात् ) पुग्गलपञत्तिग्रन्थाच्च बहवः पाठा अस्मिन् प्रसङ्गे उद्धृताः। अपरं यद् यत् किश्चिद् विशिष्टं वक्तव्यं तत् सर्वमष्टमे परिशिष्टेऽभिहितम्। विशेषजिज्ञासुभिरवश्यमष्टमं परिशिष्टं विलोकनीयम्।
स्थानाङ्ग-समवायागवृत्तयः स्थानाङ्गसूत्रस्य विक्रमसंवत् ११२० वर्षे आचार्यश्री अभयदेवसूरिविरचिता प्राचीनतमा वृत्तिः। सा अयं राय धनपतसिंहमहोदयैः कालिकातातः ईसवीये १८८० वर्षे, आगमोदयसमित्या ईसवीये १९१८ वर्षे १९२० वर्षे च, श्रेष्ठि माणेकलाल-चुनीलालमहोदयैः अहमदाबादतः ईसवीये १९३७ वर्षे च प्रकाशिता। हिन्दीभाषायां गुर्जरभाषायां चाने केऽनुवादा अपि प्रकाशिताः। विक्रमसंवत् १६५७ वर्षे नगर्षिगणिविरचिताया दीपिकाया देवचंदलालभाई पुस्तकोद्धारफंड[सुरत]तः प्रथमभागः प्रकाशितः। विक्रमसंवत् १७०५ वर्षे सुमतिकल्लोल-हर्षवर्धनाभ्यां विरचितस्य स्थानाङ्गवृत्तिगतगाथाविवरणस्य हस्तलिखितादर्शा उपलभ्यन्ते। .. समवायाङ्गसूत्रस्य विक्रमसंवत् ११२० वर्षे आचार्यश्री अभयदेवसूरिविरचिता वृत्तिः, ईसवीये १८८० वर्ष रायधनपतसिंहः [कालिकातानगरे], आगमोदयसमित्या ईसवीये १९१९ वर्षे, ईसवीये १९३८ वर्षे पण्डितमफतलाल-झवेरचन्द्रमहोदयैश्च [अहमदाबाद नगरे] प्रकाशिता वर्तते ।
आगमोदयसमितिप्रकाशितग्रन्थस्यैव प्रतिबिम्बरूपं (OFFSET) शुद्धिपत्रका दिविविधपरिशिष्टैः समलङ्कृतं श्रीमभयदेवसूरिविरचितवृत्तिसहितं स्थानाङ्ग-समवायाङ्गसूत्रद्वयं मोतीलाल-बनारसीदासमहोदयः [दिल्ही ७] अचिरादेव प्रकाशयिष्यते।
स्थानाङ्ग-समवायाङ्गसूत्रयोः संशोधने भाधारभूताः हस्तलिखितादर्शाः अयास्य सूत्रद्वयस्य संशोधने आधारभूतानां प्रतीनां स्वरूपं संक्षेपेग वर्ण्यते । तत्रादौ स्थानाङ्गसूत्रसंशोधने आधारभूताः तालपत्रोपरि लिखितास्त्रयः सूत्रादर्शा एवम्
(१) जे० = जेसलमेरुदुर्गे खरतरगच्छीयाचार्यश्रीजिनभद्रसूरिसंस्थापितग्रन्थभाण्डागारसत्का तालपत्रोपरि लिखिता प्रतिः। सूचिपत्रानुसारेण क्रमाङ्कः ७। अत्रादौ १-८७ पत्रेषु स्थानाङ्गसूत्रं वर्तते, ततः परं १-३४९ पत्रेषु अभयदेवसूरिविरचिता स्थानाङ्गसूत्रवृत्तिर्वर्तते । एतदन्ते ईदृश उल्लेखः
“संवत् १४८६ वर्षे माधवदिपञ्चम्यां सोमे अद्येह श्रीस्तम्भतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयकृतपापपूरपलयचारुचरित्रचन्दनतरुमलयश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन प. गूजरसूतेन रेषाप्राप्तसुश्रावकपरीक्षाधरणाकेन पुत्रसाहयासहितेन श्रीसिद्धान्तकोशे स्थानाङ्गसूत्रवृत्तिपुस्तकं लिखापितम्।" अस्याः प्रतेप्सायामौ ३२॥४२॥ इंच । ___ क्रमाङ्क ६ मध्येऽपि स्थानावृत्तिस्तालपत्रोपरि लिखिता वर्तते । अस्या मानं ३४१४२ इंच । अस्या अपि जे० इति सङ्केतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org