________________
आमुखम् इत्यादिप्रयोगदर्शनात् अस्माभिरपि समवायाङ्गसूत्रे तेषां तेषां विभागानाम् 'एकस्थानम् , द्विस्थानम्' इत्यादीन्येव नामानि यथायोगं निर्दिष्टानि स्थानाङ्गवत् ।
विषय :-जिनप्रवचनाभिहितानां विविधानामर्थानां प्ररूपकः कोशतुल्योऽयं ग्रन्थः। अतो विषयस्वरूपं विषयानुक्रमतो ज्ञेयम्। वस्तुतस्तु समग्रग्रन्थाध्ययनादेवात्र वर्णिता विषयाः सम्यग् ज्ञातुं पार्यन्ते।
अस्माकं संशोधन-सम्पादनपद्धतिः _प्राचीनतरान् प्राचीनतमांश्च विविधान् हस्तलिखितानादर्शाननुसृत्य पाठनिर्णयार्थ मुख्यतया प्रयतितमस्माभिरत्र । शुद्धाः समीचीनतरा वा पाठा मूले स्थापिताः, अपरे तु विशिष्टाः शुद्धा अशुद्धा वा पाठाः अत्र टिप्पणेषु पाठभेदरूपेणोपन्यस्ताः। यत्र उभयेऽपि पाठाः शुद्धाः तत्र एकः पाठो मूले उपन्यस्तः, अपरस्तु पाठभेदरूपेण टिप्पणेषु उपदर्शितः। यथा पृ० १०२ पं० १४ मध्ये वियत्तकिच्चे इति पाठः क. ला ३ मध्ये उपलभ्यते, पा० ला ४ मध्ये चियत्तकिच्चे इत्युपलभ्यते, जे० ला २, ५ मध्ये तु वि(चि ला २)यत्तकिञ्चपायच्छित्ते इति पाठ उपलभ्यते, सर्वेऽपि पाठाः शुद्धाः, अतोऽस्माभिरेषां मध्यादेकतमः पाठो मूले स्थापितः, अपरे तु पाठभेदरूपेणाधस्तात् टिप्पणेषु दर्शिताः। __ अनेकेषु पाठेषुपलभ्यमानेषु वृत्तिकृतामभयदेवसूरीणां ये पाठाः सम्मताः प्रायस्त एवात्र मले न्यस्ताः। क्वचिद् वृत्तिकृदभीष्टात् पाठाद भिन्नोऽपि पाठो मूले उपन्यस्तः, यथा पृ० ४४५ पं० ९ इत्यत्र।
एतद्ग्रन्थमुद्रणसमये केचित् पाठा अस्माभिर्धान्त्यैव स्वीकृताः, पश्चात्तु सा भ्रान्तिर्शाता, ईदृशेषु स्थलेषु अष्टमे परिशिष्टे टिप्पणेषु शुद्धिपत्रके वा ते पाठाः शुद्धरूपेण समीचीनरूपेण वोपन्यस्ता अस्माभिः । यथा पृ० ३५० पं० ३ मध्ये 'अब्भ(ज्य?)थिए' इत्यस्माभिः पाठ उपन्यस्तः, पश्चात्तु ज्ञातं यदुत हस्तलिखितादर्शेषु 'मज्झथिए' इत्येव पाठोऽस्ति, यतः 'झ' इयक्षरं हस्तलिखितादर्शेषु 'भ'सदृशमेत्र लिख्यते, अतोऽष्टमे परिशिष्टे टिप्पणे [पृ० ७५४] संशोधितं तदस्माभिः।।
'ह''ट' इत्यादीन्यङ्कसूचकानि अक्षराणि यथा हस्तलिखितादर्शेषूपलभ्यन्ते तयैवात्र प्राचीनलिपिस्वरूपस्य परिरक्षणार्थ परिज्ञानार्थ च स्पष्टीकरणेन सह उपन्यस्तानि, यथा पृ० १०८ पं० १३-१४ इत्यत्र ह [४] इति, पृ० १०९पं० १९-२० इत्यत्र च ट [= ४] हति । 'ह' इत्यादीन्यक्षराणि प्राचीनलिप्यां चतुरङ्कस्थाने व्यवहियन्ते स्म ।
अस्य ग्रन्थद्वयस्य संशोधनावसरे पाठनिर्णयार्थ पाठशुद्धयर्थं पाठभेदोपदर्शनार्थ च अटीतः= अभयदेवसूरिविरचितटीकातः बहवः पाठा अस्माभिष्टिप्पणेषूद्धृताः, अत्रोद्धृतेषु पाठेषु अद्यावधिमुद्रितअन्येभ्यो यत्र भेदो दृश्यते तत्र व्यामोहो न विधेयः, यत एते भिन्नाः पाठा जेलसमेरादिस्थप्राचीनतरप्राचीनतमहस्तलिखितादर्शानुसारेण शुद्धीकृत्य अस्माभिरत्रोपन्यस्ताः। __ संशोधनावसरे मुद्रितेषु हस्तलिखितादज्ञेषु वा ये पाठा उपलब्धास्तत्स्थाने शुद्धाः शुद्धतरा वा ये पाठा अस्माभिः सम्भावितास्ते पाठाः ( ) एतादृशकोष्ठकमध्येऽत्र मूले टिप्पणेषु च निवेशिताः, दृश्यतां पृ० ४४७ पं० १३ । ये तु पाठा 'आवश्यकाः' इति मत्वा अस्माभिरस्मत्कल्पनया संपूरितास्ते
] एतादृशे चतुरस्र कोष्ठके निवेशिताः। शुद्धि-वृद्धिपत्रके - महता प्रयत्नेन अवहिततया पठितेष्वपि प्रथममुद्रित['प्रुफ']पत्रेषु प्रमादादेः अस्माकं दृष्टिदोषाच्च अनेकेऽशुद्धपाठाः अस्मिन् ग्रन्थे मुद्रिताः सन्ति, तेषु येऽशुद्धपाठा अस्माकं दृष्टिपथमायातास्तेषां शुद्धिकरणाथै शुद्धिपत्रकमत्रोपन्यस्तम् । ये पाठाः समीचीनतरा इति अस्मच्चेतसि पश्चात् स्फुरितं तेऽप्यत्रोपदर्शिताः। जे० आदि प्रतिषु ये पाठभेदाः पश्चालब्धास्तेऽप्यत्रोपदर्शिताः वृद्धिपत्रके । अतः शुद्धिपत्रक-वृद्धिपत्रके उपयुज्यैव ग्रन्थोऽयं पठनीय इति सुधियोऽभ्यर्थ्यन्ते। ये त्वशुद्धपाठा अनवधानादिना अस्मद्दृष्टिगोचरतां नायातास्ते सुधीभिः स्वयमेव संशोध्य पठनीयाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org