SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आमुखम् शत्सहस्राधिकलक्षपदपरिमितमासीदिति श्वेताम्बरशास्रषु अनेकस्थानेषु वर्णितम्। दिगम्बरमतानुसारेण तु स्थानाङ्गे ४२००० द्विचत्वारिंशत् पदसहस्राणि समवायाङ्गे च १६४००० चतुःषष्टिसहस्राधिकमेकं लक्षं पदानामासीत् । सम्प्रति तु स्थानाजे द्वात्रिंशताऽक्षरैरेकोऽनुष्टुप् श्लोक इति गणनया किञ्चिदधिकाः ३७०० श्लोका एव विद्यन्ते, समवायाङ्गे तु १६६७ श्लोका एव सन्ति। तथा च स्थानाङ्ग-समवायाङ्गयोः परिमाणे कालक्रमेण महान् हासः संजात इति स्पष्टमेव । नामार्थ:-"तिष्ठन्ति आसते वसन्ति यथावदभिधेयतया एकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिस्तत् स्थानम् , अथवा 'स्थान 'शब्देनेह एकादिकः संख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारवदिति।" इति स्थानशब्दस्य व्याख्या स्थानाङ्गटीकायां [पृ० ३] विहिता आचार्यश्री अभयदेवसूरिमिः। “समिति सम्यक् अवेत्याधिक्येन अयनमयः परिच्छेदो जीवाजीवादिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः, समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावा अभिषेयतयां यस्मिन्नसौ समवाय इति" इति समवायाङ्गटीकायां [पृ०१] व्याख्यातमाचार्यश्री अभयदेवसूरिभिः। विभाग :-स्थानाङ्गम् एक एव श्रुतस्कन्धः। स्थानाङ्गमेकादिदशपर्यन्तानां पदार्थानामभिधायकम् , अतस्तत्प्रतिपादकानि तत्र दश अध्ययनानि । अध्ययनानां नामानि-एकस्थानम् १, द्विस्थानम् २, त्रिस्थानम् ३ यावद् दशस्थानम् १० । द्विस्थाने त्रिस्थाने चतुःस्थाने च प्रत्येकं चत्वार उद्देशकाः। पञ्चस्थाने त्रय उद्देशकाः। एवं च स्थानाङ्गे एकविंशतिरुद्देशनकालाः समुद्देशनकालाश्च इति समवायाजे नन्दिसूत्रे चाभिहितम्। समवायाङ्गम् एक एव श्रुतस्कन्धः, अध्ययनमपि चैकमेव। अत्र च एकादिशतान्ताः पदार्था एकोत्तरक्रमेण अभिधीयन्ते. ततः परम १५० सार्धशतत आरभ्य एकसागरोपमकोटिकोटिपर्यन्ताः पदार्था अनेकोतरिकया वृद्धथा अभिधीयन्ते, ततः द्वादशाङ्गयाः संक्षेपेण वर्णनम्, ततः परं जीवाजीवादयः पदार्थाः, कुलकर-तीर्थकरादीनां च वक्तव्यता इत्येवं विविधाः पदार्थाः समवायाङ्गे वर्णिताः। अभयदेवसूरिविरचितायां समवायाङ्गटीकायाम् ‘आ द्विस्थानकसमाप्तेः' 'चतुःस्थानकम्' 'पञ्चस्थानकम्' "संपदि सुदणाणस्स पदसंखा वुच्चदे। तंजहा—एत्थ पमाणपदं अत्थपदं मज्झिमपदं चेदि तिविहं पदं होदि। तत्थ पमाणपदं अटक्खरणिप्पण्णं जहा धम्मो मंगलमुक्क, [दशवै० १११ इच्चाइ। एदेहि चदुहि पदेहि एगो गंथो। एदेण पमाणेण अंगबाहिराणं चोद्दसण्हं सामाइयादिपइण्णयअज्झययाणं पदसंखा गंथसंखा च परूविजदे। जत्तिएहिं अक्खरेहिं अत्थोवलद्धी होदि तेसिमक्खराणं पलावो अत्थपदं णाम। तंजहा'प्रमाणपरिगृहीतार्थंकदेशे वस्त्वध्यवसायो नयः' [षट्खण्डागमधवला पृ० ८४] इत्यादि। सोलहसयचोत्तीसकोडीतियासीदिलक्खअट्ठहत्तरिसयअट्ठासीदिअक्खरेहि एग मज्झिमपदं होदि ."१६३४८३०७८८८। एदेण पुव्वंगाणं पदसंखा परूविजदे।... मज्झिमपदक्खरेहि सयलसुदणाणसंजोगक्खरेसु ओवष्टिदेसु बारहोत्तरसयकोडि-तेयासीदिलक्खअट्ठवंचाससहस्स पंच सयलसुदणाणपदाणि होति "११२८३५८००५। अवसेसक्खरपमाणमट्ठ कोडीओ एवं सदसहस्सं अट्ठसहस्स-पंचहत्तरिसमहियसदमेत्तं होदि ८०१०८१७५। पुणो एदम्मि बत्तीसक्नरेहि भागे हिदे पंचवीसलक्ख तिण्णिसहस्स-तिण्णिसयं सासीदं च चोइसपइण्णयाणं पमाणपद-गंथपमाणं होदि, एगक्खरूण गंथद्धं च २५०३३८०, एसो खंडगंथो १५/३२।" इति कषायप्राभृतस्य जयधवलायो टीकायाम् पृ. ९०-९३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy