________________
॥ श्री शंखेश्वरपार्श्वनाथाय नमः॥ ॥श्री महावीरस्वामिने नमः॥
॥श्री गौतमस्वामिने नमः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः। आचार्यमहाराजश्रीमद्विजयमेधसूरीश्वरजीपादपद्मेभ्यो नमः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः।
आमुखम्
परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया द्वादशाङ्गयां तृतीयस्य श्री स्थानाङ्गसूत्रस्य चतुर्थस्य च श्री समवायाङ्गसूत्रस्य आगमप्रभाकरपूज्यपादमुनिराजश्रीपुण्यविजयजीमहाराजसंगृहीतहस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधनं विधाय आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।
विरचयितारः-अनयोः सूत्रयो रचना भगवतो महावीरस्वामिनः शिष्येण पञ्चमगणभृता सुधर्मस्वामिना विहिता इति श्वेताम्बराचार्याणामभिमतम्, प्रथमेन गणभृता भगवता इन्द्रभूतिना गौतमस्वामिना विहिता इति तु दिगम्बराचार्याणामभिमतम् । एवं च २५३९ वर्षेभ्यः प्रागेते सूत्रे विरचिते इति उभयेषां श्वेताम्बर-दिगम्बराणां सम्मतम् । ___ सत्यप्येवं वीरनिर्वाणसंवत् ९८० तमे ९९३ तमे वा वर्षे संघसमवायेन यदा श्रीदेवधिंगणिक्षमाश्रमणैविहितं पुस्तकालेखनं, तदा, ततः पूर्व वा कस्मिंश्चित् समये, केषुचित् सूत्रांशेषु अन्यकर्तृकं संक्षेपणं प्रक्षेपणं वाऽवश्यं सजातमस्तीति ऐतिह्यविदः संशोधका आमनन्ति । कालक्रमेण दुर्भिक्षादिकारणबाहुल्येन श्रमणैः कण्ठस्थीकृता अनेकेंऽशा व्यवच्छिन्ना अनयोः सूत्रयोरिति तु सर्वेऽपि अभ्युपगच्छन्ति । यतः स्थानाङ्गं ७२००० द्वासप्ततिसहस्रपेदपरिमितं समवायाङ्गं च १४४००० चतुश्चत्वारि
१. "इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयांचकार-श्रुत
माकार्णितं मे मया माउसं ति.. हे आयुष्मन् । तेणं ति यः.जिनो महावीरः तेन भगवता... एवम् "आख्यातमिति" इति स्थानाने प्रथमसूत्रस्य व्याख्यायाम् [पृ० ७] अभयदेवसूरयः। "तत्र किल श्रीश्रमणमहावीरवर्धमानस्वामिसम्बन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्य जम्बूनामानमभि समवायाङ्गार्थमभिधित्सुः...आदावेव सम्बन्धसूत्रमाह" इति समवायाने
प्रथमसूत्रस्य व्याख्यायाम् [पृ० १] अभयदेवसूरयः। २. 'पद'शब्देन किं ग्राह्यमित्यत्र नैकमत्यम्। 'यत्रार्थोपलब्धिस्तत् पदम्' इति नन्दिादिश्वेताम्बर
ग्रन्थेषु उल्लिखितं दृश्यते। “तु पदं अर्थसमाप्तिः” इत्याद्युक्तिसद्भावेऽपि येन केनचित् पदेन अष्टादशपदसहस्रादिप्रमाणा भाचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणे - धिकृतत्वात् श्रुतभेदानामेव चेह प्रस्तुतत्वात्। तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाण न ज्ञायते” इति प्रथमकर्मग्रन्थस्वोपज्ञटीकायां श्वेताम्बराचायैर्देवेन्द्रसूरिभिरभिहितम्। दिगम्बरग्रन्थेषु तु अन्यथा उल्लेखा दृश्यन्ते
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org