________________
प्रमाणप्रमेयकलिका
[२. ६५५सर्वेऽपि भावाभावाद्या न वास्तवस्वलक्षणविषयास्तेषामन्यथावृत्तिरूपतयाऽवस्तुनिर्भासमानत्वात् । विकल्पो हि नामसंश्रयो न वस्त्ववलम्बनः । न हि नाम कस्यचित्पदार्थस्य धर्मस्तस्य संज्ञामात्रतया संव्यवहर्तृभिर्व्यवहरणात् । 'अतद्गुणे वस्तुनि संज्ञाकर्म नाम' [] इति भवद्भिरप्यङ्गीकरणात् । उक्तं च-'अभिलापसंसगवती प्रतीतिः कल्पना' [न्या० वि० पृ० १०] । नहि शब्दोऽर्थधर्मः, शब्दार्थयोः संबन्धाभावात् ।
[जैनाः तत्समालोचयन्तः प्राहु:-] ६५६. तत् कल्पितमवकल्प्यते, शब्दार्थयोर्वाच्यवाचकसंबन्धसद्भावात्सहजयोग्यतासङ्कतवशाद्धि शब्दोऽर्थे धियमाविर्भावयति । न च विकल्पो नामसंश्रय एव, शब्दानुच्चारणेऽपि निश्चयात्मकविज्ञानादेव यथावस्थितार्थप्रतिपत्ति-प्रवृत्ति-प्राप्तिदर्शनात्। तन्न सकलविकल्पविकलं तत्त्वमित्यकलङ्कशासनम् । तथा चोक्तम्तत्त्वं विशुद्ध सकलैर्विकल्पैर्विश्वाभिलापास्पदतामतीतम्। न स्वात्मवेद्यं न च तन्निगद्यं सुषुप्त्यवस्थं भवदुक्तिबाह्यम् ॥
[युक्त्य नु०का० १६]
१. जैन उत्तरयति-तत् कल्पितमवकल्प्यते इति । अस्यायं भावःभवता यदुक्तं तत् कल्पनामात्रम् । यतो हि शब्दार्थयोर्वाच्यवाचकसम्बन्धसद्भावात् सहजयोग्यतासङ्केतवशाच्छब्दो अर्थे ज्ञानं करोत्येव । न च विकल्पाः शब्दजा एव, शब्दोच्चारणाभावेऽपि तेषां मानसविकल्पानां व्यवसायात्मकज्ञानरूपाणां समुद्भवात् । तेषां च सामान्यविशेषात्माऽर्थ एव विषय इत्यकलङ्कमेवाकलङ्कशासनम् ।
1. 'स्वस्य वेद्यं' इति युक्त्यनुशासने पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org