________________
२. ६ ५७ ] उपसंहारः
४५ ६५७. तदेतत् किंचित्प्रमाणविषयभूतोऽर्थः सामान्यविशेषात्मको भावाभावात्मको नित्यानित्यात्मकः । किं बहुना । अभेदभेदाद्यानेकधर्मात्मकः [ अपि ] । प्रमेयत्वस्यान्यथानुपपत्तेः। यस्तु सामान्यविशेषाद्यनेकधर्मात्मको नास्ति स प्रमेयार्थो न भवति । यथा खरविषाणम् । प्रमेयार्थश्चायम् । तस्मात्सामान्यविशेषाद्यनेकधर्मात्मकः । तदुक्तम्
अभेद-भेदात्मकमर्थतत्त्वं तव स्वतन्त्राऽन्यतरत्ख-पुष्पम् । अवृत्तिमत्त्वात्समवायवृत्तेः संसर्गहानेः सकलार्थ-हानिः ।।
[ युक्यनु०का०५] तथा हिभावेषु नित्येषु विकार-हानेने कारक-व्यापृत-कार्य-युक्तिः । न बन्ध-भोगौन च तद्विमोक्षः समन्त-दोषं 4 मतमन्यदीयम् ।।
[युक्यनु० का०८] तथा च
क्षणिकैकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ।।
[आप्तमी० का० २४ ] उक्त चदया-दम-त्याग-समाधि-निष्ठं नय-प्रमाण-प्रकृताञ्जसाऽर्थम् । अधृष्यमन्यः सकलैः प्रवादेर्जिन त्वदीयं मतमद्वितीयम् ॥
[युक्यनु० का०६]
1. 'तदेतन्न' द पाठः । 2. 'व्यावृत' द पाठः । 3. 'भोग्यौ' पाठः । 4. 'द्वितीयम्' द पाठः । 5. 'अद्वैतैकान्तपक्षेऽपि' इत्ययं पाठ आप्तमीमांसायाम् । 6. 'निखिलैः' इति पाठो युक्त्यनुशासने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org