________________
४३
-२, ६ ५५] वक्तव्यावक्तव्यतत्व-परीक्षा प्रमाणविषयतामियति ।
[प्रमाणप्रमेयभेदात्प्रतिज्ञातं द्विविधं तत्त्वं परीक्ष्याधुना तस्य वक्तव्यावक्तव्यतां परीक्षितुमुपक्रमते । तत्र 'तत्त्वं सकलविकल्पवाग्गोचरातीतं ( अवक्तव्यम), केवलं निर्विकल्पकप्रत्यक्षगम्यम्' इति बौद्धानां पूर्वपक्षः प्रदर्श्यते-]
६५५. तत्त्वं सकलविकल्पवाग्गोचरातीतं निर्विकल्पकस्वानुभवविषयस्वलक्षणरूपं प्रमाणविषयत्वेन जागर्त्ति । यतो विकल्पाः तोभयं सत्त्वाससत्त्वाख्यम्, (४) सहार्पितोभयमवक्तव्यत्वरूपम्, (५) सत्त्वसहितमवक्तव्यत्वम्, (६) असत्त्वसहितमवक्तव्यत्वम्, (७ ) सत्त्वासत्त्वविशिष्टमवक्तव्यत्वम् इति । न्यायदीपिकाकारोऽपि एतदेव प्रतिपादयति-'द्रव्याथिकनयाभिप्रायेण सुवर्ण स्यादेकमेव, पर्यायाथिकनयाभिप्रायेण स्यादनेकमेव, क्रमेणोभयनयाभिप्रायेण स्यादेकमनेकं च, युगपदुभयाभिप्रायेण स्यादवक्तव्यम्, युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्वानेकत्वयोविमर्शासंभवात् । न हि युगपदुपनतेन शब्दद्वयेन घटस्यप्रधानभूतयो रूपवत्त्वरसवत्त्वयोविविक्तरूपयोः प्रतिपादनं शक्यम् । तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायैरुपनतेनैकत्वादिना समुचितं स्यादेकमवक्तव्यम्, स्यादनेकभवक्तव्यम्, स्यादेकानेकमवक्तव्यमिति स्यात् । सैषा नयविनियोगपरिपाटी सप्तभङ्गीति उच्यते । भङ्गशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् । भप्तानां भङ्गानां समाहारः सप्तभङ्गीति सिद्धेः ।'-न्या० दी. प० १२६-१२७ ।।
१. बौद्धः शङ्कते-तत्त्वमिति । अस्याः शङ्काया अयं भावः-यत तत्त्वं स्वलक्षणम्, तच्च निर्विकल्पकं परमार्थसच्च तदेव च प्रमाणविषयम् । विकल्पास्तु अवस्तुनिर्भासकाः तेषां नामसंश्रयत्वेन शब्दोत्पन्नत्वात् । शब्दानां चार्थेः सम्बन्धासम्भवात् न स्वलक्षणरूपं तत्त्वं तैविषयीक्रियते, अपि तु निर्विकल्पकप्रत्यक्षविषयं तत् । तत्कुतः सामान्यविशेषात्माऽर्थः प्रमाणस्य विषय इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org