________________
३८ प्रमाणप्रमेयकलिका
[२. ६४२[पूर्वपक्षी मीमांसकाभिमतमभावप्रमाणं तद्विषयमभावं च निराकुर्वन् विधितत्त्वमेव प्रसाधयति-]
६४२. यच्चाभावाख्यं प्रमाणम् , तस्य प्रामाण्याभावात् न तत्प्रमाणम् , तद्विषयस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स विधिरेव, तेनैव प्रमेयत्वस्य व्याप्तत्वात् । सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम् । यत्तु न विधिरूपं तन्न प्रमेयम , यथा खरविषाणम् । तथा चेदं प्रमेयं निखिलं वस्तुरूपम् , तस्माद्विधिरूपमेव । अतो वा तत्सिद्धिः-ग्रामाऽऽरामादयः पदार्थाः प्रतिभासान्त:प्रविष्टाः, प्रतिभासमानत्वात् । यत्प्रतिभासते तत्प्रतिभासान्तःप्रविष्टमेव, यथा प्रतिभासस्वरूपम् । प्रतिभासन्ते च प्रामाऽऽरामादयः पदार्थाः, तस्मात्प्रतिभासान्तःप्रविष्टाः । आगमोऽपि तदावेदकः समुपलभ्यते-'पुरुष एवेदं सर्व यद्भूतं यच्च भाव्यम्' [ ऋक्सं० म० १०, सू०६०, ऋ० २] इति । 'श्रोतव्योऽयमात्मा निदिध्यासितव्योऽनुमन्तव्यः' [बृहदा०२-४-५ ] इत्यादिवेदवाक्यैरपि तत्सिद्धेः । कृत्रिमेणाप्याऽऽगमेन तस्यैव प्रतिपादनात् । उक्तं च__ 'सर्व वै खल्विदं ब्रह्म' [छान्दोग्यो० ३।१४।१] 'नेह नानाऽस्ति किञ्चन ।' [बृहदा०४-४-१] । ___ 'आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन ॥' [बृहदा० ४-३-१४ ] इति ।
१. पूर्णमुपनिषद्वाक्यमिदं "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रीय्यात्मनि खल्वरे दष्टे श्रुते मते विज्ञात इदं सर्व विदितम् ।"-बृहदा० २।४।५, ४।५।६।
1 'तेनैवं' पाठः। 2 'प्रतिपादकत्वात्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.