________________
-२. ६४५ ]
परमब्रह्म-परीक्षा ६४३.[किं च,अन्यतोऽपि अनुमान-] प्रमाणतस्तस्यैव सिद्धेः । परमपुरुष एक एव तत्त्वम्, सकलभेदानां तद्विवर्तत्वात् । तथा हि-सर्वे भावा ब्रह्मविवर्ताः सत्त्वैकरूपेणान्वितत्वात् । यद्यद्र पेणान्वितं तत्तदात्मकमेव, यथा घट-घटी-शरावोदश्चनादयः मृद्र पेणैकेनान्वितत्वान्मृद्विवर्ताः, सत्तकरूपेणान्वितं सकलं वस्त्विति सिद्धं ब्रह्मविवर्तत्वं निखिलभेदानामिति ।
६४४. यदुच्यते, तत्सर्व मदिरारसास्वादगद्गदोदितमिव मदनकोद्रवाद्युपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते', विचारासहत्वात् । सर्व हि वस्तु प्रमाणसिद्धेन वचसा किंचित्सिद्धिमधिवसति । अद्वैतमते प्रमाणमपि नास्ति । तत्सद्भावे द्वैतप्रसंगात्, अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् ।
६४४. अथ मतम् , लोकप्रत्यायनाय तदपेक्षया प्रमाणमभ्युपगम्यते, तदेतदतिशयेन बालविलसितम् , त्वन्मते लोकस्यैवासंभवात् । एकस्यैव नित्यनिरंशस्य परमब्रह्मण एव सद्भावात् । अथाऽस्तु यथाकथंचित्प्रमाणमपि, तकि प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणमुररीक्रियते । न तावत्प्रत्यक्षम् , तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वाद्, अबला-बालगोपालानां तथैव प्रतिभासनात् ।
६४५. यच्च निर्विकल्पकं प्रत्यक्ष तदावेदकमित्युक्तम् , तदपिन धीमद्धृतिकरम् , तस्य प्रामाण्यानभ्युपगमात् । सर्वस्यापि प्रमाणस्य व्यवसायात्मकस्यैवाविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेन एकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात् ।
1. 'निखिलमेव भासति' पाठः। 2. 'प्रमाणसिद्धान्ते न हि वचस्तः' पाठः । 3. 'प्रकाशत्वावत्' पाठः। 4. 'प्रमाणत्वस्य' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org