________________
-२. ९ ४१ ]
परमब्रह्म परीक्षा
३७
भावात् । तथा हि- प्रत्यक्षं तदावेदकमस्ति । प्रत्यक्षं हि द्विधा भिद्यते, निर्विकल्पक सविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात्सन्मात्रविषयात्तस्यैकस्यैव सिद्धिः । तथा चोक्तम्
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बाल- मूकादि- विज्ञान सदृशं शुद्धवस्तुजम् ॥
[ मी० श्लो० प्रत्यक्षसू० श्लो० १२० ] ४०. न च विधिवत्परस्परव्यावृत्तिरप्यध्यक्षतः प्रतीयत इति द्वैतसिद्धि:', तस्य निषेधाविषयत्वात् । तथा चोक्तम्आहुर्विधातृ प्रत्यक्षं न निषेधृ विपश्चितः । नैकत्वे आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥ [ ब्रह्मसि० तर्कपाद श्लोक १ ]
४१. यच्च सविकल्पकं प्रत्यक्षं घटपटादिभेदसाधकं तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात्सत्ताद्वैतस्यैव साधकम्, सत्तायाश्च परमब्रह्मरूपत्वात् । तदप्युक्तम् — 'यदद्वैतं ब्रह्मणो रूपम् ' [ ] इति । अनुमानादपि तत्सद्भावो विभाव्यत एव । तथा हि-विधिरेव तत्त्वम्, प्रमेयत्वात् । यतः प्रमाणविषयभूतोऽर्थः प्रमेयः, प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः । तथा चोक्तम् -
प्रत्यक्षाद्यवतारः स्याद्भावांशो गृह्यते यदा । व्यापारे तदनुत्पत्तेरभावांशे जिघृक्षते ॥ [ मो० श्लो० पृ० ४७८]
१. विधिविषयम् । २. निषेधविषयम् ।
1. ' इत्यद्वैतसि' द आ, पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org