________________
प्रमाणप्रमेयकलिका
[ २.६३६ जो-वाय्वाकाश-दिगात्म-काल-मनांसि [नवैव ]' [प्रशस्त० भा० पृ० १४] इति ग्रन्थविरोधः। रूपरसादीनामप्यपृथक्सिद्धत्वेन परस्परं भेदाभावात् चतुर्विंशतिगुणाः' [प्रशस्त० भा० पृ० ३] इत्यस्यापि विरोधः । तन्नाद्यः पक्षः श्रेयान् । नापि द्वितीयः, तस्यापि विचार्यमाणस्य शतधा विशीर्यमाणत्वान्न विचारचतुरचेतसां चेतसि वर्वति । तथा हि-पृथक्क मशक्यत्वं हि द्रव्य-गुण-कर्मसामान्य-विशेष-समवायानामप्यस्ति, तेषामपि भेदाभावप्रसंगात् । 'द्रव्यादयः षडेव पदार्थाः परस्परं भिन्नाः' इति प्रतिज्ञा होयते ।
६३८. स्यान्मतिरेषा ते वाताऽऽतपादीनां पृथकत मशक्यत्वे भेदाभावप्रसङ्गः, तयोरप्ययुतसिद्धत्वं स्यात् । यद्येवम् , किं तर्हि नैतावता अयमतिप्रसङ्गो भवतामपि बाधकः । न ह्यनेनास्माकं बालाग्रमपि खण्डयितुं शक्यते । तस्मात्पृथक्कत मशक्यत्वमयुतसिद्धत्वं न सिद्धिमधिवसति । नापि कथंचित्तादात्म्यम् , द्रव्यगुणयोः कथंचिदभेदप्रसङ्गात् । कथंचित्तादात्म्ये हि जैनमतप्रसङ्गेन 'षडेव पदार्थाः परस्परं मिन्नाः' इति प्रच्यवते । ततश्च समवायस्य । कथंचित्तादात्म्यमन्तरेणासिद्धेः कथमस्य द्रव्यस्यायं गुण इति व्यपदेशः सिद्धय त् । तन्न 'षडेव पदार्थाः परस्पर भिन्नाः प्रमाणस्य विषयाः' इति, किन्तु गुण-गुण्यात्मकं सामान्यविशेषात्मकं द्रव्य-पर्यायात्मकं जात्यन्तरं प्रमाणविषयत्वेन सिद्धमिति ।
[परमब्रह्म एव प्रमाणस्य विषय इति वेदान्तिनां मतं विस्तरत उपन्यस्य तत्समालोचयति-]
६३६. ननु परब्रह्मण एवैकस्य परमार्थतो विधिरूपस्य विद्यमानत्वात्प्रमाणविषयत्म , अपरस्य द्वितीयस्य कस्यचिदप्य.
1. 'वति द पाठः, 'वर्तति' आ पाठः। 2. 'स्यान्मतिरेषामेषा-ते वाता..' पाठः। 3. न भिन्नमेतावता' पाठः । 4. 'प्रच्यवंते' पाठ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org