________________
३२
प्रमाणप्रमेय कलिका [२.६३४प्रतिषेधस्याधिकरणं भवितुमर्हति, एकरूपताऽऽपत्तेः, ततो वैयधिकरण्यमपरम् । [३] येनाऽऽत्मना सामान्यस्याधिकरणं येन च विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति द्वाभ्यां स्वभावाभ्यां वा । एकेनैव चेत्, न तत् , पूर्वापरविरोधात् । द्वाभ्यां वा स्वभावाभ्यां स्वभावद्वयमधिकरोति तदाऽनवस्था, तावपि स्वभावान्तराभ्यामिति । [४] संकर दोषश्च-येनाऽऽत्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति । [५] येन स्वभावेन सामान्यं तेन विशेषः येन च विशेषस्तेन च सामान्यमिति व्यतिकरः । [६] ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तः संशयः । [७] ततश्चाप्रतिपत्तिः । [८] ततोऽभाव इति सामान्यविशेषयोः स्वतंत्रयोः केनचित्प्रमाणेन गृहीतुमशक्यत्वात्खरविषाणवदग्रमेयत्वम् । तन्न सामान्यविशेषयोः स्वतंत्रयोरेकस्मिन्नपि वस्तुन्यव्यवस्थितयोः प्रमाणविषयत्वम् , विरोधादिदोषेणाप्रमेयत्वात् । स्याद्वादिनां तु जात्यन्तर-[ स्वी]करणेन न कश्चिद्दोषो विपश्चिच्चेतसि चकास्ति ।
६३५. अथेदमुच्यते, नैतदेवम्, द्रव्य-गुण-कर्म-सामान्यविशेष-समवायाः षडेव पदार्थाः परस्परं भिन्नाः तथा सति यथा यदा यः पदार्थस्तिष्ठति तदा तदुन्मुखतया यदुत्पन्नं प्रमाणं तमेव
१. संकरव्यतिकरयोः को भेद इत्यत्रोच्यते--सर्वेषां युगपत्प्राप्तिः संकरः, परस्परविषयगमनं च व्यतिकरः ।
1. 'शंकरदोषः' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org