________________
२.१ ]
सामान्यविशेषोभय-परीक्षा
३१
"
६ ३३. अथोभयं प्रमाणस्य विषयः, तत्किं सापेक्षं निरपेक्षं वा । सापेक्षं चेत्, सिद्धसाधनम् । सापेक्षयोः सामान्य- विशेषयोः कथंचित्तादात्म्याभ्युपगमेन एकत्राभिन्ने वस्तुनि स्याद्वादिभिरंगीकरशांत तथैव प्रमेयत्वस्य सिद्धत्वात् । तथा हि-जीवादितत्त्वं सामान्यविशेषात्मकमेव, प्रमेयत्वात् यत्तु न सामान्यविशेषात्मकं तन्न प्रमेयम्, यथा केवलं सामान्यं केवलो विशेषो वा, प्रमेयं चेदम्, तस्मात्सामान्यविशेषात्मकमेव । तथा चोक्तम्- 'स्यात्सामान्यम्, स्याद्विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्यावक्तव्यम्, स्याद्विशेषावक्तव्यम्, स्यात्सामान्यविशेषावक्तव्यम्' [ ] इति सप्तभङ्गैर्निरूपितत्वात् । तथा सति विरोधादिदोषाणामप्यसंभवात् । तथैव प्रतीयमानत्वात् ।
[ स्वमतं प्रदर्श्यदानीं वैशेषिकाभिमतस्य निरपेक्षस्य सामान्यविशेषोभयस्य प्रमाणविषयत्वं निराकरोति - ]
३४. निरपेक्षं चेदुभयं प्रमाणस्य विषयः, न विरोधादिदोषोपनिपातात् । [१] निरपेक्षयोः सामान्यविशेषयोर्विधिप्रतिषेध-भावाभावरूपयोर्विरुद्धधर्मयोरेकत्राभिन्ने वस्तुन्यसंभवात्, शीतोष्णवत, इति विरोधः । [२] न हि यदेव विधेरधिकरणं तदेव
१ तदुक्तमकलङ्क देवैः – 'तद्द्रव्यपर्यात्माऽर्थों बहिरन्तश्च तत्त्वतः । ' - लघी० का० ७ । 'भेदाभेदैकान्तयोरनुपलब्धेः अर्थस्य सिद्धिः अनेकान्तात् । नान्तर्बहिर्वा स्वलक्षणं सामान्यलक्षणं वा परस्परानात्मकं प्रमेयं यथा मन्यते परैः, द्रव्यपर्यायात्मनोऽर्थस्य बुद्धी प्रतिभासनात् न केवलं साक्षात्करणं एकान्ते न संभवति, अपि तु — अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता ॥ ' - लघी० का० ८ । माणिक्यनन्दिनाऽप्युक्तम् — 'सामान्यविशेषात्मा तदर्थो विषयः ।' परीक्षामु० ४-१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org