________________
२. § ३५ ]
सामान्यविशेषोभय- परीक्षा
३३
विषयीकरोति । अथेदमुच्यते, कथममीषां भेदो येनैवं स्यादिति [ चेत् ], ब्रूमः - द्रव्यादयः पदार्थाः परस्परं भिन्नाः [ भिन्नप्रत्ययविषयत्वात् ], भिन्नलक्षणलक्षितत्वात्, भिन्नकारणप्रभवत्वात्, भिन्नार्थक्रियाकारित्वात्, भिन्नकार्यजनकत्वात् । घट-पट - वत् । य एवं त एवं दृष्टाः, यथा घटादयः । एवंविधाश्चैते सर्वे । तस्मादेवंविधा एव । तत्र न तावद् भिन्नप्रत्ययविषयत्वमसिद्धम्, इदं द्रव्यमित्यादिप्रत्ययानां प्रतीयमानत्वात् । भिन्नलक्षणलक्षितत्वमपि नासिद्धम् । तथा हि- 'क्रियावद्गुणवत्समवायिकारणं द्रव्यम्' [ वैशे० सू० १-१-२५ ] इति द्रव्यलक्षणम् । 'द्रव्याश्रया निर्गुणा गुणा:" [ तत्त्वा० ५-४१ ] इति गुणलक्षणम् । 'उत्क्षेपणावक्षेपणाकुञ्चनगमनप्रसारणानि कर्माणि' [ वैशे० सू० १-१-७ ] इति कर्मलक्षणम् । अनेकव्यक्तिनिष्ठं सामान्यम् । एक
घट
१. तुलना - 'द्रव्यपर्यायो अत्यन्तं भिन्न भिन्नप्रतिभासत्वात्, पटादिवत्' - ' तथा विरुद्धधर्माध्यासतोऽपि अनयोः जलाऽनलवत् भेद: ।' न्यायकु० पृ० ३५९ । एवं 'भिन्नार्थक्रियाकारित्वात्, भिन्नकारणप्रभवत्वात्, भिन्नकालत्वात् ।' इत्यपि न्यायकुमुदचन्द्र ( पृ० ३६२ ) प्रत्येयम् । २. अत्र वैशेषिकग्रन्थः - ' रूपादीनां गुणानां सर्वेषां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणत्वं च ( लक्षणम् ) - प्रशस्त० भा० पृ० १५९-१६१ । ३. 'उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः एकद्रव्यवत्वं क्षणिकत्वं मूर्त्तद्रव्यवृत्तित्वं अगुणवत्त्वं संयोगविभागनिरपेक्ष कारणत्वं असमवायिकारणत्वं विशेषः (लक्षणम् ) ' - प्रश० भा० पृ० १४७- १४८ । ४. 'सामान्यं द्विविधं परमपरं च । तच्चानुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता, महाविषयत्वात् । सा चानुवृत्तेरेव हेतुत्वात् सामान्यमेव । द्रव्यत्वादि अपरम्,
1. 'येनेव' पाठः । 2 ' क्रियावद्गुणसमवायि
3. 'प्रसारणकारणानि' पाठः ।
३
Jain Education International
For Private & Personal Use Only
7
पाठ: ।
www.jainelibrary.org