________________
श्रीशंखेश्वरपार्श्वनाथाय नमः। आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीसद्गुरुदेवेभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीसद्गुरुदेवेभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः ।
प्रास्ताविक किञ्चित् परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया शाकटायनाचार्यविरचितः स्वोपज्ञवृत्तियुतः स्त्रीनिर्वाणप्रकरण-केवलिभुक्तिप्रकरणात्मकोऽयं ग्रन्थो विदुषां पुरत उपन्यस्यते।
विषयः
जनेषु विप्रतिपत्तिद्वयम् - स्त्रियो निर्वाणं गन्तुमर्हन्ति केवलिनश्च कवलाहारं कुर्वत इति श्वेताम्बरजैनाः, स्त्रियो निर्वाणं गन्तुं नाहन्ति केवलिनश्च कवलाहारं नैव कुर्वत इति दिगम्बरजैना:। श्वेताम्बराणां दिगम्बराणां च मध्येऽयं विवादश्चिरात् - प्रायो वर्षाणां सहस्रद्वयात्-प्रचलति। किन्तु प्राचीन समये यापनीयाभिधा अपि जैनमुनय आसन् ये त्रिस्थानदोषरहितानां साधूनां वस्त्रग्रहणनिषेधेऽपि त्रिस्थानपतितानां साधूनां वस्त्रग्रहणमन्वमन्यन्त, द्दश्यतां पृ० २१-२२ । स्त्रीणां तु सर्वासामपि वस्त्रग्रहणमावश्यकम्, अतः साध्व्यो वस्त्रधारिण्योऽपि निर्वाणस्याधिकारिण्य इति स्पष्टमेव तेऽमन्यन्त । 'केवलिनः कवलाहारं कुर्वते' इत्यपि तेऽङगीचक्र :। श्वेताम्बरसम्मताः सूत्र-निर्युक्त्यादयो ग्रन्था अपि तेषां बाढं प्रमाणभूताः।
अयं च यापनीयानां सङ्घो दर्शनसारकृतां देवसेनसूरीणाभिप्रायेण २०५ विक्रमसंवत्सरे प्रादुर्भुतः। इमे यापनीयाः पूर्णरूपेण न श्वेताम्बरा नापि दिगम्बराः, किन्तूभयांशावलम्बित्वादुभयोविवादे मध्यस्थरूपाः सेतुभूता आसन्निति ऐतिहाविद आमनन्ति, तथापि यापनीयसङघान्तर्गताः साधवः सामान्यतो नग्ना अभूवन्निति दिगम्बरेष्यपि तेषामन्तभावः षड्दर्शनसमुच्चयबहदवत्यादौ विहितो विलोक्यते । अत एव यापनीयानां प्रभूतं साहित्यं मन्दिर-जिन-प्रतिमादिकं च कालान्तरेण दिगम्बरेष्वन्त तमिति इतिवृत्तज्ञा अभिदधति।
तथाहि-दिगम्बरेष सम्प्रति अत्यन्तं बहमतः शिवार्यविरचितो मलाराधनाग्रन्थः तदवत्तयश्च यापनीयसङघाभिमतं सिद्धान्तमाश्रित्यैव प्रवृत्ता इति स्पष्टं तद्विलोकनादवसीयते। किञ्चान्यत्, शाकटायनाचार्यविरचितं सम्प्रति ग्रन्थद्वयमुपलभ्यते-अमोघावृत्तियुतं शाकटायनं व्याकरणम्, स्वोपज्ञवृत्तियुतः स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणग्रन्थश्च। तत्र शाकटायनव्याकरणवृत्तौ शाकटायनो महता बहमानेन शिवार्यमनकशो निदिदेश। तथैव स्त्रीनिर्वाणप्रकरणेऽपि [पृ० १९] धर्मोपकरणस्यापरिग्रहत्वं साधयन्
"अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभिधायि आर्याद्वियमाह- यत् संयमोपकाराय ....... ॥"
इति शिवार्यमतं प्रमाणत्वेन निर्दिदेश। तथा च शिवार्यस्य यापनीयत्वेऽपि सम्प्रति दिगम्बरेषु तद्विरचितो ग्रन्थः प्रसिद्धो बहुमतश्च ।
कर्ता तत्समयश्च
यापनीय यतिसङ्घसिद्धान्तानुसारिणा विविधशास्त्रपारगामिना यापनीययतिग्रामाग्रण्या शाकटायनाचार्येण अयं स्त्रीनिर्वाणकेवलिभुक्तिसिद्धान्तः पूर्वपक्षोत्तरपक्षविरचनया विशेषतस्तर्कानुसारिशैल्या स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणयोविस्तरेणोपन्यस्तः प्रारम्भकाले। ततः परं श्वेताम्बरैरपि प्राधान्येनेते प्रकरणे अनुसृत्य यथायोगं विस्तरेण संक्षेपेण वा स्वीयेषु स्वीयेषु ग्रन्थेषु विशदीकृतोऽयं सिद्धान्तः। दिगम्बराचार्या अपि स्त्रीनिर्वाण-केवलिभुक्तिखण्डनं कुर्वन्तः पूर्वपक्षरूपेण एतं शाकटायनीयं ग्रन्थं मनसि निहितवन्तः। एतज्जिज्ञासुभिरत्र मुद्रितानि परिशिष्टानि विलोकनीयानि ।
'किञ्चिद् मूलम्, ततः परं वृत्तिः' इत्येवं मिश्रकवृत्त्या सह विरचितस्यास्य ग्रन्थस्य कर्ता शाकटायनाचार्य इति स्पष्टमुल्लिखितमेवात्र ग्रन्थान्ते, द्दश्यतां पृ० १२।
वैक्रमे द्वाद्वशे शतके विद्यमाना वादिदेवसूरयोऽपि एतदेवाहुः स्याद्वादरत्नाकरे, दृश्यतामत्र परिशिष्टे पृ० ९७ ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org