SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 16 "केवलिभक्ति-स्त्रीमुक्तिप्रकरणं शब्दानुशासनकृत्शाकटायनचार्यकृतम्, तत्संग्रहश्लोकाश्च ९४।" इति वैक्रमे पञ्चदशे शतके विद्यमानेन केनचिज्जैनविदुषा विरचितायां बृहट्टिपनिकायामपि विलोक्यते। "शाकटायनोऽपि यापनीययतिग्रामाग्रणीः स्वोपज्ञशब्दानुशासनवृत्तावादी भगवतः स्तुतिमेवमाह" इति वैक्रमे द्वादशे त्रयोदशे च शतके विद्यमानाः मलयगिरिसूरयोऽपि नन्दीसूत्रवृत्तौ प्राहुः । शाकटायनव्याकरणस्वोपज्ञवृत्तौ “अरुणद् देवः पाण्ड्यम् । अदहदमोघवर्षोऽरातीन्" (४।३।२०८) इत्यदाहरणानि पश्यन्तोऽन्यच्च बहतरं परिशीलयन्तो विद्वांसः शाकटायनस्य समयं शकसंवत् ७३६-७८९ मध्ये (विक्रमसंवत् ८७१-९२४ मध्ये) निर्धारयन्ति । आचाराङगसूत्रवृत्तेः सूत्रकृताङ्गसूत्रवृत्तेश्च कर्तारः शीलाचार्याः सूत्रकृताङ्गवृत्तौ प्राधान्येन शाकटायनविरचितं केवलिभुक्तिप्रकरणमेवानुसृत्य केवलिभुक्ति साधयामासुः, द्दश्यतामत्र परिशिष्टे पृ० ८५-८८। आचाराङगवृत्तिश्च तैः शकसंवत ७८४ वर्षे [विक्रमसंवत ९१९ वर्षे], प्रत्यन्तरान्तर्गतोल्लेखानुसारेण शकसंवत् ७९८ वर्षे [विक्रमसंवत् ९३३ वर्षे] वा विरचितेति तैरेव स्पष्टमावेदितम् । अतो विद्वद्भिनिश्चितः शाकटायनसमयः संवदति शीलाचार्यसमयेनापि। अस्मिन् विषये नाथूरामप्रेमी-दलसुखभाई मालवणिया- महेन्द्रकुमार शास्त्र्यादिभिरपि तेषु तेषु निबन्धेषु न्यायावतारवार्तिकवृत्तेः प्रस्तावनायां न्यायकुमुदचन्द्रप्रस्तावनायां, जर्मनदेशीयैः PROF. ROBERT BIRWE इत्येभिः पं० हीरालालजैन-आदिनाथोपाध्यायाभ्यां च शाकटायनव्याकरणस्य आंग्लभाषामय्यां प्रस्तावनायाम् अन्यैश्च विद्वद्धिस्तत्र तत्र यथायोगं विस्तरेण चचितम । अस्माभिरपि अस्य ग्रन्थस्य गुर्जरभाषामय्यां प्रस्तावनायां यथायोग विस्तरेण निर्दिष्टमेतम् । अतस्तत्र विलोकनीयं विशेषजिज्ञासुभिः। बौद्धाचार्यधर्मकीर्तिविरचितात् प्रमाणवार्तिकादत्र [पृ० ३०] एका कारिकापि उद्धृता, अन्येषामपि तद्ग्रन्थानां छाया तत्र तत्र विलोक्यतेऽस्मिन् ग्रन्थे । सम्पादनाधारभूता आदर्शा : अस्य ग्रन्थस्य मूलमात्राणां कारिकाणां सम्पादनं विधाय मुद्रणम् इसवीये १९२४ वर्षे पुण्यपत्तनात् [POONA] प्रकाशिते जैनसाहित्यसंशोधके परिशिष्टरूपेण श्रीमद्भजिनविजयविहितम् । ततः परम् आगमप्रभाकरैर्मुनिराजश्रीपुण्यविजयजीमहोदयैर्वर्षदशकात् पूर्वं खंभातनगरे श्री शान्तिनाथजैनज्ञानभाण्डागारे स्वोपज्ञवत्तियता अस्य ग्रन्थस्य एकव तालपत्रात्मिका प्रतिरुपलब्धा। अतस्तत्संशोधनाद्यर्थं तैरेवं प्रेरितेन मयास्य सम्पादनकार्यमारब्धमासीत् । उपयोगिनी सामग्री अपि तैरेव प्रेषिता। अस्य सम्पादने इमे चत्वार आदर्शा अवलम्बिताः P मुनिराजश्रीपुण्यविजयजीमहाभागैरणहिलपुरपत्तने विद्यमानामेकां मूलमात्रप्रतिमवलम्ब्य गृहीताः पाठभेदा:। N बीकानेरनगरे 'अगरचन्दजी नाहटा' समीपे विद्यमानामेकां मूलमात्रां जीर्णप्रतिमवलम्ब्य पुण्यविजयजीमहा भागैरेव गृहीताः पाठभेदाः। S खंभातनगरे श्रीशान्तिनाथजैनज्ञानभाण्डागारे (संख्यांक २७३) विद्यमाना स्वोपज्ञवृत्तियुतस्यास्य ग्रन्थस्य ६१तमपत्रपर्यन्ता तालपत्रात्मिका प्रतिः। अस्यां प्रतौ १, १८, ३४, ४१, ४७, ४८, ४९, ५० इत्यकानि पत्राणि, ६२त आरभ्यान्तिमानि च द्वित्राणि पत्राणि नोपलम्यन्ते । ४० तमं पत्रमप्यर्धं त्रुटितम् । अस्य ग्रन्थस्य सम्पादनमिमामेव एका प्रतिमवलम्ब्य प्राधान्येन सम्पन्नमित्यपि ध्येयम् । अस्यां प्रतौ प्रान्तभागे क्वचित् कानिचिदक्षराणि घृष्टप्रायाणीति न सम्यक् पठितुं पार्यन्ते, तथापि पूर्वापरसम्बन्धाद्यनुसारेण महता चक्षुःश्रमेण च प्रायः सर्वत्रापि पाठा निर्धारिताः।। अस्यां प्रतौ मुलं तद्वत्तिश्चेति मिश्रमेव वर्तते। 'अपेक्षितमात्र एव मूलकारिकांशः, तदुपरि अपेक्षिता वत्तिः' इत्यनयव सरण्या ग्रन्थोऽयं शाकटायनाचार्येण विरचितः। यावन्ति पत्राणि नोपलभ्यन्ते तत्र विद्यामाना मूलकारिका N.P. प्रती अवलम्ब्यात्र पूरिता :, तथापि तदवगतयेऽत्यन्तमुपयोगिना टीकांशेन वयं वञ्चिता एव । यः कश्चिदेतावन्तं त्रुटितमंशं कुतश्चिदपि शोधधिष्यति स धन्यवादा) भविष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy