________________
९४
केवलिभुक्तिप्रकरणे माहारत्वेन विवक्षितम्, अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेत् । न चैतदिष्टं भवद्भिरपि । अथैकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च सूत्रे यथासम्भवमाहारवत्त्वव्यवस्थितेः केवलिन: कवलाहारोऽपि कादाचित्को व्यवस्थाप्यते इतरथा अस्मदादेरिव दीर्घकालं देहस्थितेरभावप्रसंगादित्यभिधीयते तदपि न परीक्षाक्षमम् ।" - पृ० ४५७-४५८ ।
__ [उत्तरपक्षः] " तत्रेदं पर्यनुयुज्यते -......ननु कुतः केवलिन: कवलाहारासम्भवः? मोहाभावादिति चेत्, मोहे क्षुत्कारणत्वस्य निराकरिष्यमाणत्वात् । यदप्यवाचि, अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेदिति । तदपि न सुव्यवस्थितम् । विशिष्टाहारस्य विशिष्टकारणप्रभवत्वाद्विशिष्टकारणस्य च प्रतिक्षणमसम्भवाद्भगवति कवलाहारस्य कादाचित्कत्वोपपत्तेः । यस्तु पुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणमपि तत्र सद्भावो न विरुध्यते । प्रतिक्षणभाविस्वकारणाधीनप्रवृत्तिकत्वात् । यच्चान्यदाशङ्कितं यथासम्भवमाहारव्यवस्थितेरित्यादि तदुपपन्नमेव । न हि देशोनपूर्वकोटी यावद्विशिष्टाहारमन्तरेणौदारिकशरीरस्थितिः सम्भविनी । निरुपक्रमायुष्कत्वं छद्मस्थावस्थायामप्यस्त्येव ततस्तदापि भोजनं कुतः कुर्यात्, तदन्तरेणापि देहस्थितेः सम्भवात् । तत्कि निरुपक्रमायुष्कत्वं देहस्थितेः कारणं न भवतीत्यभिप्रायो भवताम् ? नैवम् । किन्तु यथा स्वकारणसद्भावाच्छद्मस्थावस्थायामसौ निरुपक्रमायुष्कत्वेऽपि भुंक्ते तथा तत एव केवलिदशायामपि भुजानः कथं निषिध्यत इत्यभिप्रायः । ननु छद्मस्थावस्थायां मोहनीयकर्मवशोपजातमधुरादिरसास्वादलौल्यातिरेकात्कवलनं कुरुतेऽसौ न केवल्यवस्थायां तदभावादिति चेत् । तदचारु । न खलु छद्मस्थावस्थायामपि मोहनीयस्य कार्य कवलनम्, किन्तु वेदनीयादेः । ततः केवलिदशायां मोहनीयाभावात्कवलनलाम्पट्यं मास्तु, कवलनं तु स्वकारणोपनीतं तद्दशायामपि कथं पराणद्यते । न च छद्मस्थावस्थात: केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, येन प्रकृताहारविरहेऽपि तच्छरीरस्थितिरविरुद्धा स्यात् । ज्ञानाद्यतिशयस्यापि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैव शरीरस्य पातं यावदनुवर्त्तनात् । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेविशिष्टाहारनिमित्तत्वमुपलम्भानुपलम्भप्रभवताख्यप्रमाणेन सर्वत्र प्रतिपन्नमिति विशिष्टाहारमन्तरेणापि विशिष्टौदारिकदेहस्थितेः क्वचिदन्यत्र सद्भावे सकृदपि सा विशिष्टाहारनिबन्धना न भवेत् । अहेतोः सकाशात्सकृदपि कार्यस्य सद्भावाभावात् । यदि पुनरस्मदादिषु विशिष्टाहारनिमित्तापि विशिष्टौदारिकशरीरस्थितिः क्वचित् पुरुषविशेषे विशिष्टाहारमन्तरेणाऽपि स्यातहि महानसादौ वह्निप्रभवोऽपि धूमः क्षितिधरकन्धरादौ वह्नि विनापि स्यादिति धूमादेवह्नयाद्यनुमानमनुपपन्नं भवेद् व्यभिचारात् । नन्वेतज्जातीयो धूम एतज्जातीयाग्निप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव
१. तु०-पृ० ५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org