________________
प्रथमं परिशिष्टम् ।
तथा प्रकृतमप्यभ्युपगम्यतां विशेषाभावात् । न च बुभुक्षाया दुःखरूपत्वाद् भगवत्यसंभवः प्रतिपादयितुं शक्यः एकादश जिने " [ तत्त्वार्थ० अ० ९, सू० ११] इति सूत्रात् क्षुदादिपरिषहै का दशकस्य केवलिनि सिद्धेः । यदपि 'अनन्तवीर्यत्वं प्रकृताहारमन्तरेणापि शरीरस्थितिकारणमभिधीयते ' तदपि छद्मस्थावस्थायां भगवत्यपरिमितबलश्रवणात् समस्त्येव, न च प्रकृताहारमन्तरेण तत् तस्यामवस्थायां शरीरस्थितिकारणम्, अन्यथा कर्मक्षयार्थमनशनादि तपस्युद्यमवतः प्राणवृत्तिप्रत्ययं तस्यामवस्थायामशनाद्यभ्यवहरणमसंगतं स्यात् । न च प्राक् क्षायोपशमिकं तस्य वीर्यं केवल्यवस्थायां तु क्षायिकं तदिति विशिष्टाहारमन्तरेणापि शरीरस्थितिनिबन्धनम्, तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनोपवेशादिवत् प्रकृताहारस्याप्यविरोधात् । न चोपवेशादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम्, समुद्घातावस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेस्तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्यासंभवात्, तद्ग्रहणस्य च यथोक्तप्रयोजनमन्तरेणाभावात्, अन्यथाऽप्रेक्षापूर्वकारितापत्तेः । यदपि ' बुभुक्षया देहं तिष्ठापयिषोः क्लेशवत्त्वे न कश्चिद् विशेष ः ' तदप्यसारम्, क्लेशस्य भगवत्यद्याप्यामुक्तिगमनात् सर्वथा अनिवृत्तेः । तत्स्वभावपरिकल्पनया दोषप्रसञ्जनमभ्युपगमादेव निरस्तम् । तदेवं बाधकप्रमाणाभावात् साधकस्य च सद्भावात् सिद्धा केवलिभुक्तिरित्यलं प्रसक्तानुप्रसक्त्या । - पृ० ६१०-६१५
""
वादिदेवसूरिविरचित्ते प्रमाणनयतत्त्वालोकस्य स्वोपज्ञवृत्तिरूपे स्याद्वादरत्नाकरे केवलिभुक्तेश्चर्चा - [ पूर्वपक्ष: ]
"केवली कवलाहारवान् न भवति छद्मस्थाद् विजातीयत्वात् । ...... ' .' ननु केवलिनः कवलाहारवत्त्वं यदि नाभ्युपेयते तदा कथं तस्य शरीरे औदारिकत्वव्यपदेशः स्यात् ' इत्यपि नारेकणीयम् । न खलु तत्र कवलाहारनिबन्धनमौदारिकव्यपदेशं प्रतिजानते सन्तः । किं तर्हि ? प्रधानपुद्गलारब्धत्वनिबन्धनम्, ‘ उदारैः सर्वपुद्गलराशिमध्यप्रधानैः पुद्गलैरारब्धमौदारिकम् ' इति व्युत्पत्तेः । यदपि "सुहुगिदियपभई जाव सजोगिकेवलित्ति सव्वे आहारगा जीवा " इत्यनेन वचनेन एकेन्द्रियप्रभृतीनां सयोगिपर्यवसानानां प्राणिनामाहारवत्त्वेन सूत्रे प्रतिपादनात् कवलाहारित्वं केवलिनः सितवाससः प्रतिपेदिरे तदपि सूत्रार्थानवबोध विजृम्भितम् । तत्र हि सूत्रे भगवतः केवलिन एकेन्द्रियादिभिः सह निर्देशाद् निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमात्र
Jain Education International
९३
१. स्याद्वादरत्नाकरे महता विस्तरेण पूर्वप्रक्षोत्तरपक्षावुपन्यस्य चर्चेयं विहिता वादिदेवसूरिभि: [पृ० ४५७-४८१] । अस्माभिस्त्वत्र कतिपय एवांशः समुद्धृतोऽस्ति ॥
२. तु० पृ० ५१ ॥
For Private & Personal Use Only
www.jainelibrary.org