________________
प्रथमं परिशिष्टम् । प्रमाणेन तत्कार्यतापत्तिबलाद्वयवस्थाप्यते, अग्निस्वभावादन्यतो हि तस्य भावे सकृदप्यग्नेर्भावो न भवेत्, अग्निस्वभावादन्यत्वात्तस्य । भवति चाग्निस्वभावाद्रसवतीप्रदेशादौ धूम इति सर्वत्र सर्वदाऽग्निस्वभावादेव धूमस्योत्पत्तिरतदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्न्याद्यनुमाने व्यभिचार इति चेत् । तन्न । अस्य न्यायस्यान्यत्रापि समानत्वात् । विशिष्टौदारिकशरीरस्थितेर्हि विशिष्टाहारमन्तरेणापि भावे विशिष्टौदारिकशरीरस्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्याः केवलिनीत्यभिहितमेव । सर्वथा समानजातीयत्वं तु महानसमेदिनीधरकन्धरोपलब्धधूमयोरपि न सम्भवति । ततोऽस्मदादेरिव केवलिनोऽपि कावलिकाहारमन्तरेणौदारिकशरीरस्थितिश्चिरतरकाला न सम्भवतीति । अतो या विशिष्टौदारिकशरीरस्थितिः सा विशिष्टाहारमन्तरेण न भवति । यथाऽस्मदादेः । विशिष्टौदारिकशरीरस्थितिश्च विवादास्पदकेवलिन इत्यनुमानं प्रवर्तत एव । अन्यथा धूमादेरग्न्याद्यनुमानमपि न स्यात् ।" - पृ० ४६३-४६५ । "यद् दूषणमुदग्राहि- 'नन्वन्यजनातिशायी क्षुदभावातिशयोऽस्येष्यतां तस्यैव प्रमाणोपपन्नत्वात् ' इति तत्र हेतोरसिद्धिः । तथाहि -प्रमाणमागमोऽन्यद्वा क्षुदभावे भवेत् । न तावदागमः, सिद्धवत् सयोगकेवलिनि क्षुदभावप्रतिपादकस्यागमस्यासम्भवात् । अन्यस्माच्च प्रमाणात्क्षुदभावः स्वभावानुपलम्भादन्यतो वा स्यात् । न तावत्स्वभावानुपलम्भात् । केवलिनो विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भोऽयुक्तः । एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षणत्वात्तस्य । अन्यतोऽपि विधीयमानानिषिध्यमानाद्वा तनिषेधः स्यात् । यदि विधीयमानात्, तदा तेन क्षुद्विरोधिना भवितव्यम् । अविरुद्धविधेरभावासाधकत्वात् । न च क्षुद्विरोधः केवलिनि किंचित्प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिन इत्यभिधातुमुचितम् । यतो ज्ञानादिमात्रस्य क्षुधा विरोधस्तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य तहि यथा यथा ज्ञानादयो गुणा विवर्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् । प्रकाशविवृद्धाविव तमसः । न चैवमस्ति । न हि बालादौ ज्ञानाद्यपचये क्षुदुपचयस्तत: प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्तास्तेषामेव क्षुधा विरोधः तन्न, तथा प्रतिपत्तुमशक्तेः । नहि केवलिगता ज्ञानादयः क्षुधं विरुन्धन्तीत्यर्वाग्दृशा प्रतिपत्तुं शक्यम्, अतीन्द्रियत्वात्तेषाम् । किंचाविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिर्भवति शीतस्पर्शस्येवाग्निसन्निधौ । एतच्चात्र दुर्घटम् । केवलिगुणानामतीन्द्रियतयैतत्सन्निधौ हुन्न भवतीति प्रतीतेरनुपपत्तेः । तन्न विधीयमानात् कुतश्चित्तत्र क्षुधोऽभावसिद्धिः । निषिध्यमानश्च भावस्तस्याः कार्य कारणं व्यापको वा स्यात् । यदि कार्यम्, तदा तन्निवर्तमानमात्मनिवर्त्तनसमर्थाया एव क्षुधो निवृत्तिमवगमयेन्न
१. तु०-पृ० ३९ पं० १७ ।। २. तु०-पृ० ४० पं० १८ ॥ ३. तु०-पृ० ४१ पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org