________________
प्रथमं परिशिष्टम् ।
संश्लेषस्थितिनियमस्य चानिष्टेरसंख्येयकालादूर्ध्वं पुद्गलपरिणतेः सर्वस्या अन्यथाभवनाद्, औदारिकशरीरस्य च निराहारस्य चिरतरकालस्थायिन उत्तरकालमशेषकर्मक्षयाद् विनिवृत्तावस्ति साधनं सुनिश्चितासंभवद्बाधकप्रमाणत्वम् । इदमेव च तत्त्वव्यवस्थायां सर्वत्राभ्युपगन्तव्यम् । न ह्यध्यक्षाद्यवगतस्याप्यर्थस्यैतदन्तरेण तत्त्वव्यवस्थितिः, अनुभूतस्यापि बाधकप्रत्ययप्रवृत्तौ मिथ्यात्वरूपतया व्यवस्थापनात् । ततः सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव प्रमाणप्रमेयतत्त्वसिद्धिः, बाधकप्रमाणनिश्चयात् तद्विपरीतार्थप्रतिपत्तिः उभयोरनिश्चये दृष्टश्रुतयोरर्थयोः संशीतिरिति व्यवस्था । सुनिश्चितासंभवद्बाधकप्रमाणत्वं च प्रकृताहारवैकल्येऽपि सर्वज्ञौदारिकशरीरचिरस्थायित्वप्रतिपादकागमस्य समस्त्येवेति न किञ्चित् तस्य कवलाहारपरिकल्पनया । केवली च कवलाहारमश्मन् किं बुभुक्षया उत शरीरस्थित्यन्यथाऽनुपपत्त्या आहोस्वित् स्वभावतोऽश्नातीति वक्तव्यम् ? न तावदाद्य: पक्ष:, बुभुक्षाया दुःखरूपत्वात्, तन्मूलदोष राशिनिवृत्तौ तस्या असंभवात्, अनिवृत्तौ वा तत्प्रभवस्य दुःखसमूहस्य सद्भावे आत्यन्तिक सौख्यानुपपत्तिभगवति स्यात् । न च क्षुत्तुल्या शरीरवेदनेत्युक्तम् । बुभुक्षामन्तरेणापि शरीरं स्थापयितुमिच्छुरश्नातीति चेत्, न अनन्तवीर्यस्य भगवतः शरीरस्थितिमिच्छोः प्रकृताहारमन्तरेणापि तत्स्थापनासामर्थ्याविरोधात् । शरीरतिष्ठापयिषाऽपि बुभुक्षावत् क्लेश एवेति न प्रथमपक्षादस्य विशेष इति न द्वितीयः पक्षोऽपि । नापि तृतीयपक्षाभ्युपगमोऽपि युक्तः प्रकृताहारविकलस्यैव विवक्षितकालभाविशरीरस्थितिस्वभावकल्पनयैव दोषाभावाद्, अन्यथाऽशिष्टव्यवहारेष्वपि तत्स्वभाव कल्पनायाः प्रसङ्गात् । तीर्थप्रवर्तनस्य तु व्यापारव्याहारलक्षणस्य तत्कालभाविविवक्षाचिकीर्षाऽभावेऽपि सद्भावो न विरुध्यते, तीर्थप्रवर्तनस्य सद्भावनाविशेषोत्पन्नविशिष्टफलरूपत्वात् । सकलक्लेशोपरमेऽपि च तीर्थप्रवर्तनं स्वयमभ्युपगतं परेण, प्रकृताहारादिकं तु क्लेशोपशमनार्थं कथं तत्स्वभावतः कल्पयितुं युक्तम् ? न च भगवति क्लेशः नापि तदुपशमनवाञ्छा तस्येति कवलाहारपरिकल्पनायां भगवति पक्षत्रयेऽपि दोषानतिवृत्तेः प्रकारान्तरस्य चासंभवान्न तत्र प्रकृताहारकल्पना युक्तिसंगता |
"
Jain Education International
अत्र प्रतिविधीयते - यदुक्तम् ' छद्मस्थे उपयोगक्रमस्य दृष्टत्वात् केवलिनि च छद्माभावादुपयोगमाभाव: ' तत्र क्रमोपयोगस्य क्षयोपशमकार्यन्वात् केवलिनि च तदभावात् क्रमोपयोगस्यापि तत्कार्यस्याभावः । तथाहि - यन् यत्कारणं तत् तदभावे न भवति यथा चक्षुरभावे चक्षुर्ज्ञानम्, क्षयोपशम कारणश्च क्रमोपयोग इति क्षायिकोपयोगवति केवलिनि क्रमोपयोगाभावः । अथ क्षयोपशमाभावे भवतु तत्र मतिज्ञानादिक्रमवदुपयोगाभावः केवलज्ञानदर्शनयोस्तु क्षायिकत्वात् कथं क्षयोपशमाभावे तयोः क्रमाभावः ? उच्यते, यद् यदाऽविकलकारणं तत् तदाऽवश्यंतया प्रादुर्भवति यथा अन्त्यावस्थाप्राप्तक्षित्यादिसामग्रीसमयेऽङ्करः, अविकलकारणं च केवलज्ञानोपयोगकाले केवलदर्शनम् स्वावरणक्षयलक्षणाविकलकारणसद्भावेऽपि तदा तस्यानुत्पत्तावतद्धेतुकताप्रसक्ते
८९
For Private & Personal Use Only
www.jainelibrary.org