________________
मुक्त करणे
देशकालाकारनियमो न भवेत् । अनायत्तस्य तदसंभवात् इति प्रतिपादितत्वात् । क्रमोत्पत्तिस्वभावप्रकल्पनायां क्षायिकत्वं तस्य परित्यक्तं स्यात् । अध्यक्षसिद्धे च क्रमे तत्स्वभावप्रकल्पना युक्तिसंगता अन्यथातिप्रसङ्गः सर्वभावव्यवस्थाविलोपप्रसक्तेः । न च यो यज्जातीये दृष्टः सोऽन्यत्रातज्जातीये न भवति इत्येतदत्र विवक्षितं किं तर्हि ? कारणाभावे कार्यं न भवति, अविकलकारणं चाविलम्बितोत्पत्तिकमेतदत्र प्रतिपादयितुमभिप्रेतमाचार्यस्य ।
९०
तेन यदि केवलिनो भुक्तिकारणाभावः सिद्धो भवेत् प्रतिबद्धत्वं वा स्वकार्यकरणे कारणस्यावगतं भवेत् तदा तदभावनिश्चयः स्यात्, न चैतदुभयमपि भवस्थकेवलिनि सिद्धम्, अप्रतिबद्धसामर्थ्यस्य क्षुद्वेदनीयकर्मोदयस्य तत्र सद्भावात् । तेनातज्जातीयत्वेऽपि केवलनि भुक्तिकल्पनायां चतुर्ज्ञानत्वाऽके वलित्वापत्त्यादेर्दूषणस्यानवकाशो भुक्तिकारणस्येव तत्कारणस्य तत्राभावान्निर्निमित्तस्य च चतुर्ज्ञानित्वादेः कार्यस्यासंभवात् । यच्च अतज्जातीयत्वं केवलिनः प्रतिपादितं तत् किमस्मदाद्यपेक्षया आहोस्विदात्मीय च्छद्म स्थावस्थापेक्षया ? तत्राद्ये विकल्पे सिद्धसाध्यता । द्वतीयपक्षेऽपि किं घातिकर्मक्षयापेक्षया तत् तस्याभ्युपगम्यते आहोस्विद् भुक्तिनिमित्तकर्मक्षयापेक्षया ? प्रथमपक्षे सिद्धं विजातीयत्वं न तु तावता तस्य भुक्तिप्रतिषेधः, अप्रतिबद्धसामर्थ्यस्य भुक्तिकारणस्य तथाविधजातीयत्वेऽपि स्वकार्यनिर्वर्तकत्वात् । द्वितीयपक्षोप्ययुक्तः, अतज्जातीयत्वस्यैवासिद्धत्वात्, तन्निमित्तस्य कर्मणो भवस्थकेवलिनि पर्यन्तसमयं याव - दनुवृत्तेः । यदपि 'न देहित्वं भुक्तिकारणं तथाभूतशक्त्यायुष्ककर्मणोस्तद्धेतुकत्वादेकवैकल्ये तदभावात्' इति तदप्यसंगतम् यतो न देहित्वमात्रं प्रकृतभुक्तिकारणमपि तु विशिष्टकर्मोदयादिसामग्री, तस्याश्च ततोऽद्याप्यव्यावृत्तेः कुतस्तदभावः ? तथाभूतशक्त्यायुष्ककर्मणोश्चैकस्यापि वैकल्यासिद्धेरेकवैकल्ये तदभावादित्यसिद्धम् । यच्च ' औदारिकव्यपदेशोऽप्युदारत्वान्न भुक्ते : ' इति, तदपि न दोषावहम्, औदारिकशरीरित्वे स्वकारणाधीनाया भुक्तेरप्रतिषेधात् । व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतभुक्तिसिद्धेः । यदपि ' एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेश:' इत्याद्यभिधानम्, तदप्यसंगतम् ; एकेन्द्रियादिसहचरितत्वनिरन्तराहारोपदेशत्वाद्यन्तरेणापि " विग्गहगइमावण्णा" [ जीवसमासे. गा० ८२ ] इत्यादिसूत्रसंदर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम् सर्वज्ञ प्रणीतत्वेनाभ्युपगत सूत्रस्येव प्रामाण्योपपत्तेः । न च तत्प्रणीतागमैकवाक्यतया प्रतीयमानस्याप्यस्यातत्प्रणीतत्वम्, अन्यत्रापि तत्प्रसक्तेः । यदपि ‘शरीरप्रायोग्य पुद्गलग्रहणमाहारत्वेनाभिमतमत्र' इत्यभिधानम् तदप्यसंगतम् ; विग्रहगत्यापन्न समवहत केवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणस्य शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमिति कोऽन्यः सामयिकशब्दार्थविदो भवतोऽभिधातुं समर्थः ? यदपि 'निरन्तराहारत्वं केवलिनस्तेनाहारेण समुद्घातक्षणत्रयमपहाय भवेत्' इत्युक्तम् तदप्यसंगतम्, विशिष्टाहारस्य विशिष्टकारणप्रभवत्वात् तस्य च प्रतिक्षणमसंभवात्, यस्तु पुद्गलादान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org