________________
८८
केवलिभुक्तिप्रकरणे
तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः सम्भवादौदारिकशरीरस्थितेश्च यथायष्कं कारणमेवं प्रक्षेपाहारोऽपि तथाहि -- तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेण औदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सति । इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत् किमर्थमसौ न भुङ्क्ते ? न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात् तदभाव इत्युच्यते ।"-पृ० ३४५-३४७ [ आगमोदयसमितिप्रकाशित
अभयदेवसूरिविरचितायां सन्मतिवृत्तौ केवलिभुक्तेश्चर्चा --
"अत एव छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये भुजिक्रियाकल्पना न युक्ता, अन्यथा चतुर्जानित्वा-ऽकेवलित्वसंसारित्वादयोऽपि तत्र स्युः । न देहित्वं तद्भक्तिकारणं तथाभूतशक्त्यायुष्ककर्मणोस्तद्धेतुत्वादेकवैकल्ये तदभावात् । औदारिकव्यपदेशोऽप्युदारत्वान्न भुक्तेः । यदपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्रोपदेशात् केवलिनः कवलाहारित्वं केचित् प्रतिपन्नाः' तदपि सूत्रापरिज्ञानात् तत्र ह्ये केन्द्रियादिभिः सह भगवतो निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्धातावस्थायां निरन्तराहारो भगवांस्तेनाहारेण भवेत् । यदपि 'यथासंभवमाहारव्यवस्थितेः सह निर्देशेऽपि कवलाहार एव केवलिनो व्यवस्थाप्यते युक्त्या अन्यथा तच्छरीरस्थितेरभावादिति' तदपि न युक्तिक्षमम् यतो यदि नामास्मदादेः प्रकृताहारमन्तरेणौदारिकशरीरस्थितेः प्रभूतकालमभावात् केवलिनोऽपि तथाऽनुमीयते तहि सर्वज्ञतापि तस्य कथमवसातुं शक्या दृष्टव्यतिक्रमप्रकल्पनायोगात्, श्रूयते च प्रकृताहारमन्तरेणाप्यौदारिकशरीरस्थितिश्चिरतरकाला प्रथमतीर्थकृत्प्रभृतीनाम् । न च तदियत्तानियमप्रतिपादकं प्रमाणमस्तीति सूत्रभेदकरणनिमित्तासंभवात् यथान्यासमेव सूत्रार्थपरिकल्पनमस्तु, एवं च निरन्तराहारवचनमप्यनुल्लङ्कितं भवेत् । अथापि स्यादतिशयदशर्नान्निरवशेषदोषावरणहानेरत्यन्तशुद्धात्मस्वभावप्रतिपत्तिवत् प्रकृताहारविकला औदारिकस्थितिरात्यन्तिकी क्वचिद् यदि भवेत् तदाऽसंभवन्मुक्तिनां केवलिनां प्रमाणतः प्रतिपत्तेः "असरीरा जीवघणा" [आव० नि० गा० ९७७ ] इत्याद्यागमविरोधः प्रसज्येत, असदेतत् ; यतः किमेवं सर्वज्ञस्यासत्त्वं प्रतिपादयितुमभिप्रेतम्, उतातिशयदर्शनस्य तदहेतुत्वम् ? न तावदाद्यः पक्षः धर्मिणोऽभावे तद्धर्मस्य प्रस्तुतस्य साधयितुमशक्तेः । नापि द्वितीयः औदारिकशरीरस्य चिरतरकालावस्थायित्वस्याविरोधात् । न चातिशयदर्शनस्य तदहेतुत्वे केवलिभुक्तिसिद्धिः । न च यदतिशयवत् तदात्यन्तिकमतिशयमनुभवतीनि सर्वत्र साध्यते किन्तु व्याप्तिदर्शनमात्रमेतत्, अत: कियत्कालावस्थितिमात्र केवलिनां शरीरस्थितेरिष्टं नात्यन्तिकम् । न च संयोगस्यात्यन्तिकी स्थितिः संभवति सत्यपि प्रकर्षदर्शने जीवकर्मणोरनादित्वेऽपि विश्लेषप्रतिपत्तेः
१. तु० -५० ४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org