SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७३ द्वितीयं परिशिष्टम् अपि च संसारस्य कि कारणं वस्त्रादिः, किं वा रागादिरिति ? यदि वस्त्रादिः, तदा तद्रहितानां मोक्ष: स्यात् । अथ रागादिः, तदा तद्विपक्षसेवया रागादिक्षयो न वस्त्रादित्यागेन । अथ वस्त्रादिधावनादौ हिंसा भवति, सा च संसारकारणमिति । तन्न, अप्रमत्तस्य हिंसायामपि बन्धाभावात् । तदुक्तम् - १ "जियउ य मरउ य जीवो अजयाचारिस्स निच्छओ बन्धो । पययस्स नत्थि बन्धो हिंसामेत्तेण दोसेण ।।" [प्रवच० ३.१७] " उच्चालियम्मि पाए इरियासमियस्स वट्टमाणस्स । वावज्जेज्ज कुलिंगी मरेज्ज तं जोगमासज्ज ।। न हु तस्य तण्णिमित्तो बन्धो सुहुमो वि देसिओ समए ।" [ओघ० ७४८-७४९] तस्मात् प्रमादादिरेव हिंसा न वस्त्रादिधर्मोपकरणग्रहणमिति । __'अवन्द्या स्त्रियः । तेन न निर्वान्तीति चेत्, ननु कस्यावन्द्या ? । किं सर्वस्य, किं वा एकस्य कस्यचिदिति ? । न तावत् प्रथमः पक्षः चक्रवर्त्यादिभिर्वन्द्यत्वात् । द्वितीयपक्षे तु गणधरादीनामप्यनिर्मोक्षत्वप्रसंगः । तेऽपि हि नार्हता वन्द्यन्ते । अथ महत्त्वे सत्यवम्द्यत्वात् इत्युच्यते । तथाहि-महतीभिरपि दिनदीक्षितो वन्द्यते । न पुनस्तास्तेनेति । नैतदस्ति । महत्त्वामहत्त्वव्यवस्थितेरागमनिबन्धनत्वात् । 'धर्मस्य पुरुषप्रधानत्वात् तेन पुरुषस्य महत्त्वं न स्त्रीणाम्' इति आगमः । अतिसंक्लिष्टकर्मत्वादिति चेत् । न, कर्मलाद्यवस्य सम्यक्त्वादिप्राप्तौ तुल्यत्वात् ४मायाप्रधानत्वात् सत्यरहितत्वात् इत्यपि न वक्तव्यम् । यतः" शीलाम्बुरोधवेलाः गुणरत्नसमुज्ज्वलाः अतिस्वच्छाः । राज्यमपहाय साध्व्यः संजाताः सत्यभामाद्याः ।।" " गार्हस्थ्येऽपि सुसत्त्वा: विख्याताः शीलवत्तया जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ? ॥” [स्त्रीनिर्वाण० ३७] अपि च यदि न स्त्रीणां मोक्षोऽस्ति तदाऽयमागमः कथम् ? १. तु० - पृ० २० ॥ २. तु०-पृ० २५ ॥ ३. तु० -पृ० २९॥ ४. तु०-पृ० २७॥ ५. पृ० २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy