________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
पत्तने ताम्रलिप्यां चाशापल्यां धवलक्कके । चतुराश्चतुरशीतिः श्रीमन्तः श्रावकास्तथा ॥१२६।। पुस्तकान्यङ्गवृत्तीनां वासनाविशदाशयाः । प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥१२७॥ युग्मम्।। प्रावर्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुञ्चिकाः ॥१२८॥ पुरं धवलकं प्रापुरथ संयमयात्रया । स्थानेष्वप्रतिबन्धो हि सिद्धान्तोपास्तिलक्षणम् ॥१२९।। आचामाम्लतपःकष्टानिशायामतिजागरात् । अत्यायासात् प्रभोर्जज्ञे रक्तदोषो दुरायतिः ॥१३०॥ अमर्षणजनास्तत्र प्रोचुरुत्सूत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत् कुपितैः शासनामरैः ॥१३१।। निशम्येति शुचाक्रान्तः स्वान्तः प्रेयाभिलाषुकः । निशि प्रणिदधे पन्नगेन्द्रं श्रीधरणाभिधम् ॥१३२।। लेलिहानेश्वरं लेलिहानं देहमनेहसा । अचिरेणैक्षत श्रीमान् स्वप्ने सत्त्वकषोपलः ॥१३३॥ कालरूपेण कालेन व्यालेनालीढविग्रहः । क्षीणायुरिति संन्यास एव में सांप्रतं ततः ॥१३४॥ इति ध्यायन् द्वितीयाह्नो निशि स्वप्ने स औच्यत ।।
धरणेन्द्रेण रोगोऽयं मयाऽऽलिह्य हृतस्ततः ॥१३५।। युग्मम् । निशम्येति गुरुः प्राह नातिमें मृत्युभीतितः । रोगाद्वा पिशुना यत्तु कद्वदास्तद्धि दुःसहम् ।।१३६।। नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धृतेः ॥१३७।। श्रीकान्तीनगरीसत्कधनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण व्रजता सता ॥१३८॥ तदधिष्ठायकसुरस्तम्भिते वहने ततः । अर्चितव्यन्तरस्योपदेशेन व्यवहारिणा ॥१३९।। तस्या भुवः समाकृष्टा प्रतिमानां त्रयी शितिः । तेषामेका च चारूपग्रामे तीर्थे प्रतिष्ठिता ॥१४०।। अन्या श्रीपत्तने चिञ्चातरोर्मूले निवेशिता । अरिष्टनेमिप्रतिमा प्रासादान्तःप्रतिष्ठिता ॥१४१।। तृतीया स्तंभनग्रामे सेटिकाटिनीतटे । तरुजाल्यन्तरे भूमिमध्ये विनिहितास्ति च ॥१४२।। तां श्रीमत्पार्श्वनाथस्याऽप्रतिमां प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थं भविष्यति ॥१४३।।
__षभिः कुलकम् । पुरा नागार्जुनो विद्यारससिद्धो धियां निधिः । रसमस्तम्भयद्भूम्यन्तःस्थबिम्बप्रभावतः ॥१४४।। ततः स्तंभनकाभिख्यस्तेन ग्रामो निवेशितः। तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥१४५।।
युग्मम् ॥ अदृष्टान्यैः सुरी वृद्धारूपा ते मार्गदर्शिका । श्वेतश्वरूपतस्तत्र क्षेत्रपालो यथाग्रतः ॥१४६॥ उक्त्वेत्यन्तर्हिते तत्र सूरयः प्रमदोद्धुराः । व्याकुर्वन्ति स्म संघस्य निशावृत्तं तदद्भुतम् ॥१४७।। ततश्च संमदोत्तालैः प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र शकटानां चचाल च ॥१४८।। अग्रे भूत्वा प्रभुर्वृद्धा-कौलेयकपदानुगः । श्रावकानुगतोऽचालीत्तृणकण्टकिना पथा ॥१४९।। शनैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धा-श्वानौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥१५०॥ पप्रच्छुरग्रे गोपालान् पूज्यं किमपि भो किमु । जाल्यामत्रास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो ॥१५१॥ ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः । कृष्णाऽऽगत्य क्षरेत् क्षीरमत्र सर्वैरपि स्तनैः ॥१५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org