________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
:
૭
गृहे रिक्तैव सा गच्छेद् दुह्यमानाऽतिकष्टतः । मनाग मुञ्चति दुग्धं न ज्ञायतेऽत्र न कारणम् ॥१५३॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य संनिधौ । श्रीमत्पार्श्वप्रभोः स्तोत्रं प्रोचे प्राकृतवस्तुकैः ॥१५४॥ जयतिहुयणेत्यादिवृत्तं द्वात्रिंशतं तदा । अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः ॥१५५॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः । शनैरुन्निद्रतेजस्वि बिम्बं तत्प्रतिवस्तुकम् ॥१५६॥ प्रणतं सूरिभिः संघसहितैरेतदञ्जसा । गतो रोगः समग्रोऽपि कायोऽभूत् कनकप्रभः ॥१५७॥ गन्धाम्भोभिः स संस्नप्य कर्पूरादिविलेपनैः । विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥१५८॥ चक्रे तस्योपरिच्छाया सच्छायाप्रतिसीरया । सत्रादवारितात्तत्र संघो ग्राम्यानभोजयत् ॥१५९।। प्रासादार्थं ततश्चक्रुः श्राद्धा द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः ॥१६०॥ श्रीमल्लवादिशिष्यश्च श्राद्धरामेश्वराभिधः । महिषाख्यपुरावासः समाह्वायि धियां निधिः ॥१६॥ अनुयुक्तः स संमान्य कान्तरविचक्षणः । अथ प्रासाद आरेभे सोऽचिरात्पर्यपूर्यत ॥१६२॥ कर्माध्यक्षस्य वृत्तौ यद् द्रम्म एको दिनं प्रति । विहितो घृतकर्षश्च भुक्तौ तंडुलमानकम् ॥१६३।। विहृत्य भोजनात्तेन तेन द्रव्येण कारिता । स्वा देवकुलिका चैत्ये सा तत्राद्यापि दृश्यते ॥१६४॥ शुभे मुहूर्ते बिम्बं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ धरणाधीशस्तेषामेतदुपादिशत् ॥१६५॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥१६६।। तदादेशादतोऽद्यापि त्रिंशवृत्तमिता स्तुतिः । सपुण्यैः पठ्यमानात्र क्षुद्रोपद्रवनाशनी ॥१६७॥ ततः प्रभृत्यदस्तीर्थं मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥१६८।। अद्यापि कलशो जन्मकल्याणकमहामहे । आद्यो धवलकश्राद्धः स च स्नपयति प्रभुम् ॥१६९॥ बिम्बासनस्य पाश्चात्त्यभागेऽक्षरपरंपरा । ऐतिह्यात् श्रूयते पूर्वकथितात् प्रथिता जने ॥१७०।। नमेस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये २२२२। आषाढः श्रावको गौडोऽकारयत्प्रतिमात्रयम् ॥१७१।। श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः । चिरमायुः प्रपाल्यैतौ संन्यासाद्दिवमीयतुः ॥१७२।। श्रीमानभयदेवोऽपि शासनस्य प्रभावना[म्] । पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥१७३।। विधाय योगनीरोधधिक्कृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥१७४।। युग्मम् ।। वृत्तान्तोऽभयदेवसूरिसुगुरोरीदृक् सतामर्चितः, कल्याणैकनिकेतनं कलिकलाशैलाग्रवज्रप्रभः । भूयाद् दुर्धरदुर्घटोदिततमःप्रध्वंससूर्योदयः, श्रेयःश्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ॥१७५।। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितो वृत्तान्तोऽभयदेवसूरिसुगुरोः शृङ्गो ग्रहेन्दुप्रभः ॥१७६।। वरकरुणबन्धुजीवकनृतिलकनालीकरूपविजयश्च । श्रीप्रद्युम्नसुजाते सुमनश्चित्रं नवकुलश्रीः ॥१७७॥"
इति विक्रमसंवत् १३३४ वर्षे प्रभाचन्द्राचार्यविरचितः अभयदेवप्रबन्धः ।।
१. पूर्वं कथैषा इति पुरातनप्रबन्धसंग्रहे पाठः ।। २. प्रभावकः... ... योगनीरोधं धिकृता' इति पुरातनप्रबन्ध
संग्रहे पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org