________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः । ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६।। स चावगाढसिद्धान्तः तत्त्वप्रेक्षानुमानतः । बभौ महाक्रियानिष्ठः श्रीसंघाम्भोजभास्करः ॥९७|| श्रीवर्द्धमानसूरीणामादेशात् सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः ॥९८।। श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः । यशोभिर्विहरन्प्राप पल्य(त्य?)पद्रपुरं शनैः ॥९९।। आयु:प्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलंचक्रुर्वर्द्धमानसूरयो भूरयः क्रमात् ॥१००॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः । सिद्धान्तत्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥१०१।। ईषत्स्थितं च यत् सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थं खिलं जज्ञे ततश्च तत् ॥१०२॥ निशीथेऽत्र प्रभुं धर्मस्थानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माऽभयदेवं मुनीश्वरम् ॥१०३।। श्रीशीलांकः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाङ्ग्याः स विदधे धूतकल्मषः।।१०४।। अङ्गद्वयं विनान्येषां कालादुच्छेदमाययुः । वृत्तयस्तत्र संघानुग्रहायाऽद्य कुरूद्यमम् ॥१०५।। सूरिः प्राह ततो मातः कोऽहमल्पमतिर्जडः । श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥१०६।।
अज्ञत्वात् क्वचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभृद्दर्शितं महत् ॥१०७॥ • अनुल्लंघ्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो लेभे न किञ्चिदुत्तरम् ॥१०८।।
देवी प्राह मनीषीश सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं कथयामि विचिन्तय ॥१०९|| यत्र संदिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमंधरस्वामी तत्र गत्वा धृतिं कुरु ॥११०॥ आरभस्व ततो ह्येतन्माऽत्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥१११।। श्रुत्वेत्यङ्गीचकाराथ कार्यं दुःकरमप्यदः । आचामाम्लानि चारब्ध ग्रन्थसंपूर्णतावधि ॥११२।। अक्लेशेनैव संपूर्णा नवाझ्या वृत्तयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता पुरा ॥११३॥ महाश्रुतधरैः शोधितासु तासु चिरन्तनैः । ऊरीचक्रे तदा श्राद्धैः पुस्तकानां च लेखनम् ॥११४।। ततः शासनदेवी च विजने तान् व्यजिज्ञपत् । प्रभो मदीयद्रव्येण विधाप्या प्रथमा प्रतिः ॥११५॥ इत्युक्त्वा सा च समवसरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचिं दधौ ॥११६॥ तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिम्बवत्तद् विभूषणम् ॥११७|| चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून्मुदा । ते चाचख्युरुदन्तं तं श्राद्धानाह्वाययंस्तथा ॥११८॥ आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥११९॥ अदर्शि तैश्च सा तत्र स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्ये मन्त्रं विदधुरीदृशम् ॥१२०॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तद्दत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते तु न ॥१२१॥ समुदायेन ते सर्वे पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण प्रणयात् प्राभृतं कृतम् ॥१२२।। तदुदन्ते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः । तपस्विनां विना मूल्यं न गृह्णामि प्रतिग्रहम् ॥१२३।। ते प्रोचुः श्रीमुखेनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः ॥१२४|| द्रम्मलक्षत्रयं कोशाध्यक्षाद्दापयति स्म सः । पुस्तकान् लेखयित्वा च सूरिभ्यो ददिरेऽथ तैः ॥१२५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org