________________
નવાંગીવૃત્તિકાર આ.ભ.શ્રી અભયદેવસૂરિજી મહારાજનું જીવનચરિત્ર
इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः । वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ॥६६॥ व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ संप्रापतुस्ततः ॥६७॥ मया च गुणगृह्यत्वात् स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे प्रहिताश्चैत्यपक्षिभिः ॥६८॥ अत्रादिशत मे क्षणं दण्डं चात्र यथार्हतम । श्रुत्वेत्याह स्मितं कृत्वा भूपालः समदर्शनः ॥६९॥ मत्पुरे गुणिनः कस्माद् देशान्तरत आगताः । वसन्तः केन वार्यते को दोषस्तत्र दृश्यते ॥७०॥ अनुयुक्ताश्च ते चैवं प्राहुः शृणु महीपते । पुरा श्रीवनराजोऽभूच्चापोत्कटवरान्वयः ॥७१॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण सूरिणा । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा ॥७२॥ पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं ददौ नवम् ॥७३॥ वनराजविहारं च तत्रास्थापयत प्रभुः । कृतज्ञत्वादसौ तेषां गुरूणामर्हणं व्यधात् ॥७४।। व्यवस्था तत्र चाकारि संघेन नृपसाक्षिकम् । संप्रदायविभेदेन लाघवं न यथा भवेत् ॥७५॥ चैत्यगच्छयतिव्रातसंमतो वसतान्मुनिः । नगरे मुनिभिर्नात्र वस्तव्यं तदसंमतैः ॥७६।। राज्ञां व्यवस्था पूर्वेषां पाल्या पाश्चात्त्यभूमिपैः । यदादिशसि तत् कार्यं राजन्नेवं स्थिते सति ॥७७॥ राजा प्राह समाचारं प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां पूजां तूल्लङ्घयेम न ॥७॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः । एधन्ते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥७९॥ उपरोधेन नो यूयममीषां वसनं पुरे । अनुमन्यध्वमेवं च श्रुत्वा तेऽत्र तदा दधुः ॥८॥ सौवस्तिकस्ततः प्राह स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थे श्रीमुखेन प्रदीयताम् ।।८१।। तदा समाययौ तत्र शैवदर्शनवासवः । ज्ञानदेवाभिधः कूरसमुद्रबिरुदाई (र्हि)तः ॥८२।। अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत् किंचिदद्य विज्ञप्यते प्रभो ॥८३।। प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः प्राह प्रहसिताननः ॥८४|| गुणिनामर्चनां यूयं कुरुध्वे विधुतैनसाम् । सोऽस्माकमुपदेशानां फलपाकः श्रियां निधिः ॥८५|| शिव एव जिनो बाह्यत्यागात् परपदस्थितः । दर्शनेषु विभेदो हि चिह्न मिथ्यामतेरिदम् ॥८६॥ निस्तुषव्रीहिहट्टानां मध्ये त्रिपुरुषाश्रिता । भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ॥८७|| विघ्नः स्वपरपक्षेभ्यो निषेध्यः सकलो मया । द्विजस्तच्च प्रतिश्रुत्य तदाश्रयमकारयत् ॥८८॥ ततः प्रभृति संजज्ञे वसतीनां परंपरा । महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः ॥८९॥ श्रीबुद्धिसागरः सूरिश्चक्रे व्याकरणं नवम् । सहस्राष्टकमानं तत् श्रीबुद्धिसागराभिधम् ॥९०॥ अन्यदा विहरन्तश्च श्रीजिनेश्वरसूरयः । पुनर्धारापुरीं प्रापुः सपुण्यप्राप्यदर्शनाः ॥९१।। श्रेष्ठी महीधरस्तत्र पुरुषार्थत्रयोन्नतः । मुक्त्वैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥१२॥ तस्याभयकुमाराख्यो धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि यद्गुणोक्तौ नहि प्रभुः ॥९३।। सपुत्रः सोऽन्यदा सूरि प्रणन्तुं सुकृती ययौ । संसारासारतामूलः श्रुतो धर्मश्चतुर्विधः ॥९४।। अथाभयकुमारोऽसौ वैराग्येण तरङ्गितः । आपप्रच्छ निजं तातं तपःश्रीसंगमोत्सुकः ॥९५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org